SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ श्रीकल्पकौमुद्यां ६क्षणे ॥१३५॥ | श्रीवीर चरित्रे महावीरस्थानगारता सिवानो-नासिकामलो जल्लो-देहमलः तेषां शुद्धस्थानपरिष्ठापने समितः, अत्र प्रभोर्भाण्डसिङ्घानाद्यभावेऽपि समितीनां माना-|| खण्डनार्थमिदमुक्तं (मणसमिए वयसमिए कायसमिए) मनोवचनकायानां सम्यक्प्रवर्तकः (मणगुत्ते वयगुत्ते कायगुत्ते) | मनःप्रभृतीनामशुभानां निषेधकः, अत एव (गुत्ते) सर्वप्रकारैर्गुप्तः (गुत्तिदिए) शब्दादिषु रागद्वेषाभावात् गुप्तेन्द्रियः (गुत्तबंभयारी) गुप्तिमद् ब्रह्म चरतीति गुप्तब्रह्मचारी (अकोहे अमाणे अमाए अलोहे) क्रोधादिचतुष्टयकपायरहितः (संते) अन्तर्वृत्त्या शान्तः (पसंते) बाह्यवृत्त्या प्रशान्तः (उवसंते) अन्तर्बाह्यवृत्या चोपशान्तः (परिनिव्वुडे) अत एव सर्वसन्तापरहितः (अणासवे) हिंसाद्याश्रववर्जितः (अममे) ममतारहितः (अकिंचणे) द्रव्यादिरहितः (छिन्नगंथे) मुक्तहिरण्यादिग्रन्थः (निरुवलेवे) द्रव्यतो देहमलो भावतश्च मिथ्यात्वमलः तयोर्लेपेन रहितः (कंसपाइ इव मुकतोए) यथा कांस्यपात्री |तोयेन न भिद्यते तथा प्रभुरपि स्नेहेन (संखे इव निरंजणे) शङ्ख इव प्रभुरपि रागादिरजनरहितः (जीवे इव अप्पडि हयगई) जीव इव यथायोग्यं विहारे संयमे वा अस्खलितगतिः (गगणमिव निरालंबणे) आकाशमिव कस्याप्याधारण | रहितः (वाऊ इव अप्पडिबद्धे) वायुरिव क्षेत्रादौ प्रतिबन्धरहितः (सारयसलिलं व सुद्धहियए) शरत्कालजलमिव | निर्मलहृदयः (पुक्खरपत्तं व निरुवलेवे) कमलपत्रमिव निरुपलेपः, पङ्कजलतुल्यस्वजनादिस्नेहरहितः (कुम्मे इव गुत्तिदिए) कच्छप इव गुप्तेन्द्रियः (खग्गिविसाणं व एगजाए) गण्डकजीवशृङ्गमिव एकजातो, रागादिसहायकरहितत्वात् (विहग इव विप्पमुक्के) पक्षीव मुक्तपरिकरः (भारंडपक्खी इव अप्पमत्ते) भारण्डपक्षीव अप्रमत्तः, निद्रादिप्रमादाभावात् , भारण्डयोः किलैकं शरीरं द्विजीवं, यतः-"भारण्डपक्षिणः ख्याता, द्विग्रीवा मर्त्यभाषिणः। द्विजिह्वास्त्रिपदाश्चैकोदरा भिन्न ॥१३५॥
SR No.600395
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorShantisagar
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages246
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy