________________
श्रीकल्पकौमुद्यां ६क्षणे ॥१३४॥
|श्रीवीर
चरित्रे उपसर्गेषु कीलकोपसर्गः
नीकमियं यत्नेन रक्षणीया प्रभोः प्रथमशिष्यणी भाविनीत्युक्त्वा गतः। ततः सुमङ्गलग्रामे सनत्कुमारेण वन्दितो वालुकग्रामे च | वायलवणिग् यात्रां गच्छन् प्रभुं प्रेक्ष्यामङ्गलं मत्वा खड्ड्रेन हन्तुं धावन् सिद्धार्थेन हतः, ततः क्रमेण जृम्भिकग्रामे नृत्यं दर्शयित्वा |एतावद्भिर्दिनैः केवलोत्पत्तिर्भविष्यतीति शक्रोऽवदत, ततः षण्मानिग्रामे वहिः कायोत्सर्गस्थितस्य प्रभोः पार्चे गां मुक्त्वा गोपो
ग्रामं गत्वाऽऽगतः पृच्छति स्म-देवार्य ! क गता मे गौः, कृतमौनस्य प्रभोः कर्णयोः कुपितेन तेन कटकशलाके तथा प्रक्षिप्ते | यथा मिलितांते छिन्नाग्रत्वाददृश्ये च, एतच्च कर्म गानाक्षिप्तत्वेनानिवारितगानस्य शय्यापालकस्य कर्णयोस्तप्तंत्रपुः क्षिप्वाऽर्जितं,
शय्यापालकस्तु भवं भ्रान्त्वाऽयमेव गोपो जातः, ततो मध्यमापापायां सिद्धार्थेन सहोद्यानमागत्य सण्डासकाभ्यां ते शलाके | कर्षयति स्म, तत्कर्षणावसरे च वीरेणाराटिर्मुक्ता यथा समस्तमप्युद्यानं महाभयंकरं जातं, संरोहिण्यौषध्या च स्वामी नीरोगो | जातः, तत्र च देवकुलं कारितं ।। एवं चोपसर्गा गोपेन प्रारब्धा गोपेनैव समापिताः। एतेषूपसर्गेषु जघन्यादिभेदो यथा-कट इतनाशीतं || | जघन्यं १ कालचक्र मध्यमं २ कर्णकीलकर्षणमुत्कृष्टं३। कीलकक्षेपको गोपः सप्तमं नरकं गतः, सिद्धार्थवैद्यौ तु स्वर्ग गतौ, एवं || | वर्णितस्वरूपा ये उपसर्गास्तान् 'उप्पण्णे'त्ति उत्पन्नान् सम्यक् सहत इत्यादि सम्बन्धः ॥११७।।
* तए णं समणे भगवं (महावीरे अणगारे जाए) महावीरोऽनगारो जातः, किंविशिष्टः ? (ईरियासमिए) | गमनागमनादौ सम्यक्प्रवृत्तः (भासासमिए) भाषणे सम्यक्प्रवृत्तः (एसणासमिए) द्विचत्वारिंशद्दोषरहिताहारग्रहणे समितः
(आयाणभंडमत्तनिक्खेवणासमिए) उपकरणादीनां भाण्डस्य-वस्त्रादेर्मुन्मयादेर्भाजनस्य मात्रस्य च-पात्रविशेषस्य | निरीक्ष्य प्रमृज्य मोचने समितः (उच्चारपासवणखेलसंघाणजल्लपारिट्ठावणियासमिए) विट् प्रश्रवणं खेलो-निष्ठीवनं
॥१३४॥