________________
श्रीकल्पकौमुद्यां ६क्षणे ॥१३२॥
| सपर्यन्तमनेषणीयाहारकरणादीन् तत्कृतानेकप्रकारानुपसर्गान् सहमानः प्रभुनिराहार एव षण्मास्या स गतो भविष्यतीति विचि-DI श्रीवीरन्त्य यावद् ब्रजग्रामगोकुलं गोचर्या गतस्तत्रापि तत्कृतानेषणां ज्ञात्वा तथैवागत्य बहिः कायोत्सर्गे स्थितः, ततः स सुराधमोऽव
चरित्रे
उपसर्गेषु धिज्ञानेन विशुद्धपरिणामं खामिनं ज्ञात्वा विषण्णः सन् पश्चात्तापं कुर्वन् सौधर्म प्रति गतः, प्रभुस्तु तत्रैव गोकुले वत्सपाल्या
संगमकः स्थविरया परमान्नेन प्रतिलाभितो वसुधारावृष्टिश्च, इयन्तं च कालं यावत् सौधर्मवासिनः सर्वेऽपि देवा देव्यश्च निरानन्दा निरुत्साहा उद्विग्नास्तस्थुः, इन्द्रोऽपि च मुक्ताभरणालङ्कारविलेपनगीतनाटकादिः एतावतामुपसर्गाणां कारणमहं जात इति दुःखाकान्तो विमनस्कश्च स्थितः, तावता च पापपङ्कमलिनं भ्रष्टवप्रतिज्ञं लज्जाश्याममुखं समागच्छन्तं सङ्गमं दृष्ट्वा सद्यः पराङ्मुखो भूत्वा इन्द्रो वक्ति स-भो देवाः! सर्वेऽपि शृण्वन्तु, अयं पापात्मा कर्मचाण्डालः सुराधमो दृष्टोऽपि महापापाय स्यात् , अनेन बहुरपराधः कृतो, यदस्मत्स्वामी भूयो भूयः सन्तापितः, अस्मत्तो न भीतः, तत् किं संसारादपि न भीतः १, उपसर्गसमये यदेनं न शिक्षा| मदां तदर्हन्तोऽन्यसाहाय्येन न तपस्तप्यन्ते, अतः स्वर्गात् कर्ण्यताम् , ततः सुरेन्द्रसुभटैस्ताड्यमानो देवैराक्रोश्यमानः सामानिकदेवैर्हस्यमानो मोटितहस्तपाणिभिर्देवाङ्गनाभिराशप्यमानः कर्षितः, एकसागरशेषायुरेकाकी मेरुचूलायां गतः, तद्देव्यश्चेन्द्रं पृष्ट्वा | निषिद्धपरिवाराः स्वपति प्रति गताः। तत आलंभिकापुर्या हरिकान्तः श्वेताम्ब्यां हरिसहश्च प्रियं पृच्छति स, श्रावस्त्यां स्कन्दप्रतिमायां | सङ्क्रम्य शक्रः स्वामिनमवन्दत, ततो महती महिमप्रवृद्धिः, कौशाम्ब्यां चन्द्रसूर्यावतरणं, वाणारस्यां शक्रो राजगृहे ईशानो | मिथिलायां जनको राजा धरणेन्द्रश्च प्रियं पृच्छति स्म, ततो वैशाल्यामेकादशो(११) वर्षारात्रोऽभूत् , तत्र भृतेन्द्रः प्रियं पृच्छति स, (पुरिमताले उपयाचितकृतमल्लीजिनायतनेन वग्गुरश्रेष्टिनेन्द्रवचसा पूजितः) ततः सुंसुमारपुरे गतस्तत्र चमरोत्पातः,
॥१३२॥