________________
श्रीकल्पकौमुद्यां ६क्षणे ॥१३॥
श्रीवीर
चरित्रे | उपसर्गेषु संगमकोपसर्गाः
श्योपायः सिद्धार्थशिक्षित इत्यधिकृत्य सुबोधिकाकृतश्चिन्ता आवश्यक त्याद्यज्ञानमूलेति ध्येयं, ततः प्रभुः श्रावस्त्यां विचित्रतपोभिर्दशमं वर्षारात्रं(१०) कुरुते स्म, यावद्वहुम्लेच्छीयदृढभूमौ बहिः पोट्टिलोद्याने पोलासचैत्येऽष्टमेनैकरात्रिक | कायोत्सर्ग स्थितः । अत्रान्तरे महावीरचित्तचालने त्रिलोकीलोका अपि न समर्था इति सभास्थितेन्द्रकृतां प्रशंसां श्रुत्वेर्ण्यया | | सामानिकः सङ्गमाभिधो देवः शीघ्रं प्रभुपार्श्वमागत्य प्रथमं धूलिवृष्टिं चक्रे, यया निरुद्धाऽक्षिकर्णादिच्छिद्रःप्रभुनिःश्वासो जातः१, | ततो वज्रमुखकीटिकाभिश्चालनीरूपस्तथा चक्रे यथैकेन च्छिद्रेण प्रविशन्ति द्वितीयेन निस्सरन्ति च२ तथा वज्रमुखदंशाः३ तीक्ष्ण| मुखा घृतेलिका-४ वृश्चिकाः५ नकुला:६ सर्पा७ मूषकाः कर्त्तनभक्षणादिभिः८ हस्तिनः९ हस्तिन्यश्च शुण्डाप्रहारपदमनादिभिः१० पिशाचा अट्टट्टहासादिमिः११ व्याघ्रा नखदंष्ट्राविदारणादिभिः१२ सिद्धार्थत्रिशले करुणाविलापादिमि१३ श्वोपसर्ग कुर्वन्ति, ततो विकुर्वितकटकलोकाः प्रभोः पादयोर्मध्येऽग्निं प्रज्वाल्य हाण्डिका संस्थाप्य पचन्ति१४ ततश्चाण्डालास्तीक्ष्णमुखपक्षिपञ्जराणि प्रभोः कर्णबाहुमूलादिषु लम्बयन्ति, ते च चञ्चुभिर्भक्षयन्ति१५ ततः पर्वतानपि कम्पयन् खरवातः प्रभुमुत्पायर पातयति१६ ततः कलिकावातश्चक्रवद्धमयति१७ ततो यस्मिन्मुक्ते मेरुशृङ्गमपि चूर्णीयात् तादृशं सहस्रभारं लोहचक्र तथा मुक्तं यथा प्रभुराजानु भूमौ प्रविष्टः१८ ततः प्रभातं विकुळ वक्ति-हे देव ! अद्यापि किं तिष्ठसि ?, याहि यथेच्छं, प्रभु नेन रात्रि |जानाति१९ ततो देवद्धिं प्रकटीकृत्य वक्ति-हे महर्षे ! वृणीष्व वरं येन स्वर्गेण मोक्षेण वा तव कार्य, तथाऽप्यक्षुब्धं प्रभु देवाङ्गना गीतनृत्यहावभावैरुपसर्ग कुर्वन्ति२०, एवमेकस्यां रात्रौ विंशत्योपसर्गमनागप्यक्षुब्धः प्रभुः, अत्र कविः-"वलं जगद्ध्वंसनरक्षणक्षम, कृपा च किं सङ्गमके कृतागसि १ । इतीव संचिन्त्य विमुच्य मानसं, रुषेव रोषस्तव नाथ ! निर्ययौ ॥१॥" ततः षण्मा
॥१३॥