________________
श्रीकल्पकौमुद्यां
श्रीवीर
चरित्रे उपसर्गषु
thTMEN
६क्षणे
॥१३०॥
वैश्या
यनवृत्तं
imation on
aimittaileneraPHimmatli
प्रभोलोंकावधिः उत्पन्नः, ततः प्रभुः षष्ठे वर्षे चतुर्मासीतपो विविधानभिग्रहाँश्चाकरोत , तत्र पण्मासमवलिमिलितः, ततः प्रभुः बहिः, पारणं कृत्वा शेषकाले मगधदेशे निरुपसगों विहृतः, ततः आलंभिकायां सप्तमं वर्षारात्रं(७) चतुर्मासकक्षपणेन कृत्वा बहिः पारणां | कृत्वा चानुक्रमेण उन्नागसन्निवेशं गच्छन् सम्मुखमिलितदन्तुरखधूवरौ मङ्कलिना हसितौ, यथा-"तत्तिल्लो विहिराया जणेवि दृरेवि जो जहिं वसइ । जं जस्स होइ जोग्गं तं तस्स बिइजियं देई ॥१॥” ततस्तदीयैः कुदृयित्वा वंशजाल्यां प्रक्षिप्तः, प्रभुच्छत्रधरत्वान्मुक्तः, ततो राजगृहेऽष्टमं वर्षारात्रं(८) चतुर्मासिकं तपो बहिः पारणं च चक्रे, ततो बहूपसर्गा इति मत्वा वज्रभूम्यां स्थानाभावादनियतस्थाने नवमवर्षारात्रं(९) चातुर्मासिकं अन्यद्द्विमासिकमेवं पाण्मासिकं तपश्चाकरोत् , ततः कूर्मग्रामं गच्छन् मार्गे तिलस्तम्बं दृष्ट्वाऽयं निष्पत्स्यते नवेति मङ्खलिना पृष्टे सप्तापि तिलपुष्पजीवा मृत्वा एकशम्बायां तिला भविष्यन्तीति भगवद्वचनमन्यथा | कर्तुं तिलस्तम्बमुत्पाट्य एकान्ते तेन मुक्तः, प्रभूक्तं माऽन्यथा भूयादिति व्यन्तरैर्वृष्टिः कृता, गोखुरेण च मृदुभूमौ स तिलस्तम्ब ऊ/भृय स्थिरीभृतः, ततः कूर्मग्रामे आतापनाग्रहणाय मुत्कलमुक्तजटामध्ये यकाबाहुल्यदर्शनाङ्काशय्यातरोऽयमिति वारं वारं मङ्कलिनोक्ते रुष्टेन वैश्यायनतापसेन मुक्तां तेजोलेश्यां कृपासमुद्रः प्रभुः शीतलेश्यया निवार्य तं रक्षितवान् , सिद्धार्थपुरे च गच्छन् स तिलस्तम्बो न निष्पन्न इति मङ्खलिनोक्ते प्रभुः प्राह-निष्पन्न इति, अश्रद्दधत्तत्तिलशंबामध्ये सप्त तिलान् दृष्ट्वा नियतिं गाढीचके, तेजोलेश्योपायं चापृच्छत् , आतापनां गृह्णतो नित्यं षष्ठतपोन्वितस्य सनखकुल्माषपिण्डिकया एकेनोष्णोदकचुलुकेन पारणं कुर्वतो मासषट्केन तेजोलेश्योत्पद्यते इति सिद्धार्थोक्तोपायं श्रुत्वा प्रभोः पृथग्भृत्वा श्रावस्त्यां कुम्भकारशालास्थितस्तां साधयित्वा त्यक्तव्रतपार्श्वनाथशिष्यपार्श्वेऽष्टाङ्गनिमित्तं च शिक्षयित्वा अहङ्कारेणाहं जिनः सर्वत्रोऽस्मीति लोके प्रसिद्धिं करोति स्म, अत्र तेजोले
॥१३०||