________________
चरित्रे
श्रीकल्पकौमुद्यां ६क्षणे ॥१२९॥
गुरुरेव हन्यते इति प्रभु हननायोद्यतास्तान् दृष्ट्वा बलदेवमूर्तिहलमुत्पाटयोत्थिता, ततस्ते सर्वेऽपि प्रभुं प्रणताः, ततः प्रभुश्चो
श्रीवीरराकसनिवेशं गतः, तत्र मण्डपे पच्यमानं भोज्यं दृष्ट्वा गोशालः पुनर्नीचर्भूय वेलां विलोकयति स्म, नतश्चौरशङ्कया हतः कुपितः प्रभुतपसा मण्डपं ददाह, ततः प्रभुः क्लिष्टकर्मक्षयार्थ लाटादेशं गतः, तत्र हीलनादयो बहवो घोरा उपसर्गा अध्यासिताः,IY उपसर्गाः ततः पूर्णकलशेऽनार्यग्रामे गच्छतः प्रभोर्मार्गे द्वौ चौरौ अपशकुनबुद्धया खड्गमुत्पाट्य हन्तुं धावितो, विज्ञातमात्रेण शक्रेण हतौ, ततः प्रभुर्भद्रिकापुर्या चतुर्मास(४)क्षपणेन वर्षारात्रमतिक्रम्य बहिः पारणं कृत्वा क्रमाबालग्रामे गतः, तत्र श्रीपार्श्वनाथसन्तानीयो बहुशिष्ययुक्तो नन्दिषेणाचार्यों रात्रौ कायोत्सर्गे स्थितश्चौरभ्रान्त्याऽऽरक्षकपुत्रेण भल्लया हतः प्राप्तावधिः स्वर्ग गतः, शेषं| गोशालकवचनादि च मुनिचन्द्रवत् , ततः स्वामी कूपिकसन्निवेशं गतः, तत्र चारिकहेरिकशङ्कया गृहीतः पार्श्वनाथान्तेवासिनीभ्यां प्रव्राजकीभूताभ्यां विजयाप्रगल्भाभ्यां मोचितः, ततो गोशालः प्रभुतः पृथग् जातः, अन्यमार्गे गच्छन् पञ्चशतचोरैर्मातुल इतिकृत्वा स्कन्धारूढाहितः, खिन्नश्चिन्तयति-प्रभुणैव साद्धं गमनं वरमिति तच्छुद्धिं कत्तुं लग्नः, प्रभुरपि वैशाल्यां गत्वा लोहकारशालायां कायोत्सर्गे स्थितः, तत्रैको लोहकारः षण्मासी यावद्रोगीभूत्वा नीरोगः सन्नुपकरणानि गृहीत्वा शालायामागतः, प्रभुं प्रेक्ष्यामङ्गलमिति मत्वा घनेन हन्तुं प्रवृत्तोऽवधिज्ञानेनेन्द्रेण तेनैव घनेन हतः (सत्यामपि जीर्णश्रेष्ठिभावनायामभिनवश्रेष्ठिगृहे(५) चतुर्मासीपारणं कृतं,जीर्णश्रेष्ठिनाऽच्युतायुर्वद्धं) ततो ग्रामाकसन्निवेशोद्याने कायोत्सर्गे स्थितस्य प्रभोबि| मेलकयक्षो महिमानं चक्रे, ततः शालिशीर्षग्रामोद्याने कायोत्सर्गे स्थितं स्वामिनं त्रिपृष्ठभवेऽपमानिता राज्ञी मृत्वा व्यन्तरी भूत्वा तापसीरूपेण जलभृतजटामिर्माघमासेऽन्यदुःसहं शीतोपसर्ग प्रशान्ता च स्तुतिं चक्रे, तत् सहमानस्य षष्ठेन तपसा विशुद्धयमानस्य