________________
श्रीकल्पकौमुद्यां ६क्षणे ।।१२८॥
श्रीवीर
चरित्रे श्रीमुनिचन्द्रवृत्तादि
तान् मुनीन् दृष्ट्वा गोशालोऽपृच्छत्-यूयं के ?, तैरुक्तं-निर्ग्रन्था वयं, पुनः सोऽवदत्-क्क यूयं क च मम धर्माचार्यः?, पुनस्तैरूचेयादृशस्त्वं तादशस्तव धर्माचार्योऽपि भविष्यति, ततो रुष्टेन गोशालेनोक्तं-मम धर्माचार्यतपसा भवतामाश्रमो दह्यतां, तैरूचेनेदं भयमस्माकं, ततस्तदुक्तं सर्व श्रुत्वा सिद्धार्थो वक्ति-नैते साधवो ज्वलन्ति, रात्रौ च जिनकल्पतुलनां कुर्वन् कायोत्सर्गस्थितो मुनिचन्द्रः कुम्भकारेण चौरभ्रान्त्या हतः प्राप्तावधिज्ञानश्च स्वर्ग गतः, तन्महिमा देवकृतोद्योतं दृष्ट्वा गोशालोऽवदद्--अहो तेषामाश्रयो ज्वलति, ततो यथास्थिते सिद्धार्थेनोक्ते अश्रद्दधंस्तत्र गत्वा तच्छिष्यानिर्भागतः, ततः स्वामी चोरायां प्राप्तः, तत्र चारिको हेरिकाविति मत्वा आरक्षैः प्रथमं गोशालोऽगडे प्रक्षिप्तो, यावता च प्रभु प्रक्षिपन्ति तावता सामाजयंतीनाम्न्यौ | उत्पलभगिन्यौ चारित्रभारासमर्थे परिव्राजकीभूते प्रभुं ज्ञात्वा तमुपसर्ग निवारयतः, ततः प्रभुः पृष्ठचम्पायां गतः, श्रावस्त्यांबहिः कायोत्सर्गे स्थितः, तत्र गोशालेनाद्याहं किं भोक्ष्ये इति पृष्टे सिद्धार्थेन मनुष्यमांसमित्युक्ते तत्परिहाराय वणिक्कुलेषु भिक्षार्थ भ्रमन् पितृदत्तवणिग्भार्यया मृतापत्यप्रसूतिकया श्रीभद्रया शिवदत्तनैमित्तिकवचनेन स्वापत्यजीवनाय मृतजातवालकमांसमिश्रितं | | परमान्नं भोजितः, अग्निभयाच गृहद्वारमन्यत्र कृतं, हसताऽऽगतेन गोशालेन पायसभोजने उक्ते सिद्धार्थेन वमने कारिते नखवालमांसखण्डानि दृष्ट्वा कुपितेनादृष्टतद्गृहेण स्वामितपसा तत्पाटको ज्वालितः, प्रभुर्हरिद्रसन्निवेशाबहिः हरिद्रवृक्षाधः कायोत्सर्गे | स्थितः, तत्र पथिकप्रज्वालितेनाग्निना प्रसरता प्रभोः स्थानामोचनात् पादौ दग्धौ, गोशालस्तु नष्टः, ततः प्रभुर्मङ्गलग्रामे वासुदेवालये कायोत्सर्गे स्थितो, गोशालकस्तु बालकभापनायाऽक्षिकर्षणं कुर्वन् तपित्रादिभिः कुट्टितो मुनिपिशाच इत्युपेक्षितः, ततः प्रभुरावग्रामे बलदेवालये कायोत्सर्गे स्थितो, गोशालेन तु बालकभापनाय मुखत्रासे कृते तपित्रादयः किमनेन अथिलेन हतेन? अस्य
॥१२
%3D