________________
श्रीकल्पकौमुद्यां
श्रीवीर
चरित्रे गोशालकमीलनं
६क्षणे
॥१२७॥ |
writamal
NITIES ITANILIONIRI
देवः प्रतिहतः, ततस्तौ प्रभोः सत्वं रूपं च गायन्तौ नृत्यन्तौ गन्धोदकपुष्पवृष्टिं च कृत्वा गतौ, प्रभुरपि राजगृहे नालन्दायां तन्तुवायशालैकदेशे चतुर्मासकं स्थितः (२) तत्राद्यमासक्षपणपारणे विजयश्रेष्ठिना कूरादिप्रचुरभोजनविधिना प्रतिलामितः, तत्र पञ्चदिव्यादिमहिमानं दृष्ट्वा पूर्वोक्तस्वरूपो गोशालः प्रभु प्रति त्वच्छिष्योऽस्मीत्युक्त्वाऽऽश्रितः, ततो द्वितीयपारणे पक्कान्नादिना | नन्दः तृतीये परमानादिना सुनन्दः प्रभुं प्रतिलाभितवान , चतुर्थे च पारणे कोल्लाकसनिवेशे बहुल विप्रः परमान्नं दत्तवान् , पश्च दिव्यानि च, गोशालकस्तु तन्तुकशालायां स्वामिनमदृष्ट्वा सकलेऽपि राजगृहे विलोकयन् स्खोपकरणं द्विजाय दचा शिरो मुखं |च मुण्डयित्वा कोल्लाके प्रभुं प्रेक्ष्य त्वत्प्रव्रज्याऽस्तु ममेत्यवदत् , ततो गोशालकसहितः स्वामी सुवर्णखलग्रामं गच्छन्नन्तराले | गोपैर्महाहण्डिकायां परमानं पच्यमानं दृष्ट्वा-प्रभो! पायसं भुज्यते, गोशालेनेत्युक्ते सिद्धार्थेन च तद्भङ्गे प्रोक्ते गोपैः सुयत्नेन रक्षिताऽपि सा हण्डिका भग्ना, ततो भवितव्यता नान्यथा स्यादिति नियतिर्गोशालेनाङ्गीकृता, ततो ब्राह्मणग्रामे नन्दगृहे पायसादिना प्रतिलाभितः, गोशालस्तु उपनन्दगृहे शीतलान्नदानेन कुपितो यदि मम धर्माचार्यस्य तपस्तेजोऽस्ति तदा अस्य गृहं दह्यतामिति शशाप, तत आसन्नदेवतया तद्गृहं ज्वालितं, ततो द्विमासक्षपणेन चम्पायां चतुर्मासं स्थितो (३) अन्यद्विमासपारणं तु चम्पाया बहिः कृत्वा कोल्लाकसन्निवेशे शून्यगृहे कायोत्सर्गे स्थितः, तत्रैव ग्रामेशपुत्रः सिंहो विद्युन्मत्या दास्या सह क्रीडन् गोशालेन हसितः, कुट्टितश्च तेन, प्राह सः-स्वामिन् ! एकाक्येवाहं कुट्टितो, यूयं किं न निवारयत?, मैवं कुर्याः पुनरपीति सिद्धार्थः प्राह, तत्र पात्रालके शून्यगृहे स्थितः,तत्र स्कन्दः स्वदास्या दन्तिलया सहति यावत् कुट्टितश्च, ततः कुमाराकसन्निवेशे चम्पकरमणीयोद्याने प्रभुः कायोत्सर्गे स्थितः, अत्रान्तरे श्रीपार्श्वनाथशिष्यो बहुशिष्यान्वितो मुनिचन्द्रमुनिस्तत्र कुम्भकारशालायां स्थितोऽस्ति,
A
PAHILOPARTIANILIP HIRIDHARITISH
॥१२७||