________________
m
श्रीकल्प कौमुद्यां
६क्षणे ॥१२६॥
uslMI
श्रीवीर-.
चरित्रे उपसर्गेषु कंबल
शंबलौ
गङ्गानयुत्तरणाय भगवति लोके च नावारूढे घूकशब्दं श्रुत्वा पण्डितखेमिलो वक्ति स-अत्र मारणान्तिकविन उत्पत्स्यते, परमेतत्प्रभुप्रसादान्मोक्ष्यामहे, ततो गङ्गामुत्तरतः प्रभोस्त्रिपृष्ठभवविदारितसिंहजीवसुदंष्ट्रदेवकृतं दुर्वातादिमिनौंब्रूडनोपसर्ग कम्बलशबलनामानौ नागकुमारदेवी निवारयामासतुः, तदुत्पत्तिर्यथा--मथुरायां पुर्या जिनदासश्राद्धसाधुदासीश्राद्धीभ्यां भर्तृस्त्रीभ्यां पञ्चमव्रते चतुष्पदस्य प्रत्याख्यानं कृतं, तत्र चैकामीरी प्रत्यहं गोरसमानयति, यथोचितं मूल्यं प्रामोति, एवं च तयोढा प्रीतिर्जाता, अन्यदा विवाहे निमन्त्रणायागतां तामाभीरी तौ दम्पती वदतः-भो अस्माभिरागंतुं न शक्यते, परं भवद्विवाहे यद् विलोक्यते | तद् गृह्यतां, ततस्ताभ्यां दत्तैश्चन्द्रोदयताम्रपात्रवस्त्राभरणपुष्पगन्धादिभिराभीरविवाहोऽधिकतरं शोभितो लोकैः प्रशंसितश्च, तेन हृष्टतुष्टचित्ताभ्यामाभीराभ्यां अतिसुन्दरौ एकदिनजातौ द्विवार्षिको कम्बलशबलनामानौ वत्सौ तयोर्दत्तौ, तौ तु न गृह्णतः, ततस्तौ बलात्कारेण द्वारे बद्ध्वा गतौ, ततो यदैतौ प्रत्ययेते तदा षण्ढीकरणादिदुःखभागिनौ भविष्यतः, ततः प्रासुकतृणादिमिः पोष्यमाणौ सुखेनात्रैव तिष्ठतामिति विचार्य श्राद्धेन रक्षितौ, स च श्रावकोऽष्टमीचतुर्दश्योः पौषधोपवासं करोति पुस्तकं च वाचयति, तत् श्रुत्वा तौ च वत्सौ भद्रकी जातो, यद्दिने स श्राद्ध उपवासं करोति तद्दिने तावपि तृणादि न भक्षयतः, ततस्तस्य श्राद्धस्येमौ | भव्यावुपशान्तौ धर्मिणाविति अधिकः स्नेहो जातः, एकदा च पौषधिके श्राद्धे जाते सति तन्मित्रेणातिरूपवन्तौ बलिष्ठावनन्यसदृशौ तौ वृषभौ विभाव्य श्रेष्ठिनमनापृच्छथैव भण्डीरमणयात्रायै अदृष्टधुरौ उपोषितौ तथा वाहितौ यथा त्रुटितौ, तत आनीय तथैव बद्ध्वा गतः,तौ च तृणजलादि सर्वथा नेच्छतः, तदा साश्रुलोचनः श्रावको भक्तपानप्रत्याख्याननमस्कारदानादिभिर्निर्यामयति, ततस्तौ श्रद्धावन्तौ मृत्वा नागकुमारी देवी जातो, प्रयुक्तावधिको तीर्थकरस्य क्रियमाणमुपसर्ग दृष्ट्वा एकेन नोर्गृहीता द्वितीयेन सुदंष्ट्रो
॥१२६॥