________________
श्रीकल्पकौमुद्यां ६क्षणे ॥१२४॥
टकर अट्टहासशब्द, ततो हस्तिपिशाचसर्परुपैरुपसर्गान् करोति, तथापि प्रभुन क्षुब्धः, ततः शिरःकर्णचक्षुर्नासिकादन्तनखपृष्ठिषु श्रीवीरदुःसहा वेदनाः तथा कृता या एकैकाप्यन्यस्य जीवितं हरति, तथापि शुभध्यानान्मनागपि न चलितं चित्तं, ततः प्रतिबुद्धः क्षम- चरित्रे यति, सिद्धार्थो वक्ति स्म-दुरन्तप्रान्तलक्षणधर ! हे शूलपाणे त्वं न जानासि सिद्धार्थराजपुत्रं प्रभुं तीर्थकरं, यदीन्द्रो ज्ञास्यति तदा
स्वमदशकं
तत्फलं च | तब स्थानं स्फेटयिष्यति इति श्रुत्वा भीतोऽधिकंर क्षमयति, सिद्धार्थोक्तं च धर्म श्रुत्वोपशान्तः प्रभुं पूजयति, गीतनृत्यादिकं करोति
च, तच्छ्रुत्वा लोकश्चिन्तयति-यदयं प्रभुं मारयित्वा क्रीडति । अत्र प्रभुदेशोनाँश्चतुरोऽपि प्रहरान अतीव सन्तापितोऽपि प्रभात| काले मुहूर्त निद्रां प्राप्तो दश स्वमान् दृष्ट्वा जागरितः, प्रभाते लोका उत्पलेन्द्रशर्माणौ चागताः, अखण्डशरीरं प्रभुं दिव्यगन्धचूर्णैः पुष्पैः पूजितं च दृष्ट्वा हर्षिताः सिंहनादं कुर्वन्तः प्रणमन्ति, तदोत्पलो वक्ति स-स्वामिन् ! त्वया दश स्वमा दृष्टाः तेषां
चेदं फलं-यत् तालपिशाचो हतस्तेन त्वं अचिरेण मोहनीय कर्म हनिष्यसि यच्च श्वेतपक्षी दृष्टस्तत् त्वं शुक्लध्यानं ध्याससिर यच्च |चित्रकोकिलो दृष्टस्तचं द्वादशाङ्गी प्ररूपयिष्यसि३ यद्गोवर्गो दृष्टस्तत् साधुसाध्वीश्रावकश्राविकारूपश्चतुर्विधः सङ्घो भविष्यति४ यच्च | विबुधालङ्कृतं पद्मसरोवरं दृष्टं तद् भवनपतिव्यन्तरज्योतिष्कवैमानिकरूपचतुर्निकायदेवैः सेव्यो भविष्यसि५ यच्च समुद्रं तीर्णः तत् संसारसमुद्रं तरिष्यसि६ यत् सूर्यो दृष्टस्तत्र चाचिरेण केवलज्ञानमुत्पत्स्यते७ यच्चान्त्रैर्मानुषोत्तरपर्वतो वेष्टितः तत्रिभुवने तव निर्मला कीर्तिर्यशःप्रतापश्च भविष्यति८ यच्च मेरुपर्वतमारूढस्तत् सिंहासनोपविष्टो देवासुरमनुष्यपर्षदि धर्ममुपदेक्ष्यसि९ यच्च मालायुग्मं दृष्टं तदर्थं तु न जानामि, तदा प्रभुः प्राह-हे उत्पल! अहं साधुधर्म श्रावकधर्म च कथयिष्यामीतिश्रुत्वा उत्पलो वन्दित्वा गतः, तत्र प्रभुः पक्षक्षपणे२श्चतुर्मासिकमतिक्रम्य(१) मोराकसभिवेशं गतस्य कायोत्सर्गस्थितस्य च प्रभोः पूजार्थं तदेहे स्थितः सिद्धार्थो ।