________________
श्रीकल्पकौमुद्यां ६क्षणे
॥ १२३ ॥
| वेशस्य वहिः कायोत्सर्गस्थितं प्रभुं प्रेक्ष्य चिन्तयति - हा मया पलालं सामुद्रिकमधीतं यदीदृशलक्षणेन भिक्षुकेण न भवितव्य| मिति विषण्णचित्तो यावत्तिष्ठति तावद्दत्तोपयोग इन्द्र आगत्य प्रभुं प्रणम्य प्राह - भो पुष्प ! मा विषीद, त्वयाऽधीतं सत्यं, परं स्त्वमभ्यन्तरलक्षणानि न जानासि यदस्य गोक्षीरगौरं रुधिरामिषं १ स्वेदमलरहितः कायः २ कमलगन्धश्च श्वास ३ इन्याद्यपरिमितबाह्याभ्यन्तरलक्षणयुक्तः त्रिजगत्पूज्यस्तीर्थङ्करो धर्मवरचक्रवर्त्ती भविष्यतीत्युक्त्वा मणिसुवर्णरत्नैः पुष्पं सन्तोष्य शक्रः स्वस्थानं गतः, | पुष्पोऽपि, जिनोऽपि चान्यत्र विहृतः (जे केई उवसग्गा उप्पज्जंति) ये केऽपि चोपसर्गा उत्पद्यन्ते, तद्यथा - (दिवा वा ) | देवकृताः (माणुस्सा वा) मनुष्यकृताः (तिरिक्खजोणिआ वा) तिर्यक्कृताः (अणुलोमा वा पडिलोमा वा) कामभोगप्रार्थनारूपा अनुकूलाः तर्जनाताडनादिरूपाः प्रतिकूलाः (ते उप्पन्ने) तानुत्पन्नान् (सम्मं सहइ ) भयाभावेन सम्यक् सहते (स्वमइ) | क्रोधाभावेन क्षमते ( तितिक्खइ) दीनताभावेन तितिक्षते (अहिया सेइ) कायादिनिश्चलतया अध्यासयति, तत्र देवकृता उपसर्गा यथा-वर्धमानग्रामासनां नदीं पञ्चशतशकटानि उत्तार्य स्ववृषभं त्रुटितं मत्वा धनदेववणिक् तद्ग्रामाधिकारिणां तृणजलार्थ द्रव्यं दत्वा तं च तत्र मुक्त्वा गतो, ग्रामाधिकारिभिस्तु न किमपि तस्य दत्तं, क्षुधातृषार्त्तोऽपि स मृत्वा शुभभावात् शूलपाणिर्यक्षो जातः, पूर्वभवस्मरणोत्पन्नकोपेन तेन मारिं विकुर्व्य भूयान् लोको मारितो, दहनं च कियतां स्यात् इति तथैव त्यक्तशबानामस्थिसमूहैः स ग्रामोऽस्थिकग्राम इति नाम्ना प्रसिद्धोऽभूत्, ततो लोकेन विज्ञप्तः प्रत्यक्षीभूय देवकुलं स्वमूर्ति च कारितवान् तत्रैत्य सर्वोऽपि लोकः पूजयति स्तौति च, मोराकसन्निवेशात् प्रस्थितः प्रभुस्तत्प्रतिबोधनाय तद्देवकुले कायोत्सर्गेण स्थितो, दुष्टोऽयं रात्रौ स्वदेवकुले स्थितं मनुष्यं मारयति तेन भोः प्रभो ! त्वमन्यत्र तिष्ठेति लोकैर्विज्ञप्तोऽपि मौनपर उषितः, ततः संध्यायां भूमिस्फो
श्रीवीरचरित्रे
शूलपाणिः
॥ १२३ ॥