SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ श्री कल्पकौमुद्यां ६क्षणे ॥ १२१ ॥ अद्धत्तेरसकोडी उक्कोसा होइ तत्थ वसुहारा । अद्धत्तेरसलक्खा जहनिया होइ वसुहारा ॥ १ ॥ ततः स्वामी विहरन् | मोर | कसन्निवेशे दुइअंततापसाश्रमे गतः, तत्र सिद्धार्थराजमित्रं कुलपतिः प्रभुपार्श्वमागतः प्रभुणाऽपि पूर्वाभ्यासात् करः प्रसा | रितः, तस्याऽऽदरात्तत्रैकां रात्रिं स्थित्वा गच्छन्नीरागोऽपि प्रभुस्तस्याग्रहात्तत्र चतुर्मासकावस्थानं मत्वा अष्टौ मासान्यन्यत्र विहृत्य | चतुर्मासार्थं पुनरागतः कुलपतिप्रदत्ततृणगृहे कायोत्सर्गे स्थितो, वृष्टौ च बहिस्तृणालाभात् क्षुधार्त्ता गावस्वापसैः स्वाश्रयभक्षणतो | निवारिताः स्वामिसत्कमाश्रयं भक्षयन्ति, तदाश्रयस्वामिकृतरावां श्रुत्वा कुलपतिः प्रभोरुपालम्भं दत्ते यद्भो ! वीर पक्षिणोऽपि स्वाश्रयं रक्षन्ति, तत् किं त्वं स्वाश्रयरक्षणे अक्षमोऽसीति श्रुत्वा अत्र स्थिते मयि एषामप्रीतिर्भवतीति विचार्य नाप्रीतिमद्गृहे वासः १ स्थेयं प्रतिमया सह२ । न गेहिविनयः कार्यो३, मौनं४ पाणौ च भोजनम् ५ ॥१॥ इमान् पञ्चाभिग्रहान् गृहीत्वा चतुर्मासकस्य पक्षातिक्रमेऽस्थिकग्रामं स्वामी गतः ॥ ११६ ॥ *समणे भगवं महावीरे (संवच्छ रसाहियं मासं जाव चीवरधारी होत्था ) मासाधिकं वर्षं यावत् वस्त्रधारी अभवत् (तेण परं अचेलए पाणिपडिग्गहिए ) ततः परं मासा|धिकवर्षादूर्ध्वं दक्षिणवाचालनगरासन्नसुवर्णवालुकानदीतटे देवदुष्यार्द्ध पतितं, ततः प्रभुः सिंहावलोकनेनापश्यत् - स्वसन्ततेर्वत्र| पात्रादि सुलभं भावि न वेति विलोकनार्थ, कण्टके लग्नत्वाच्च कण्टकप्रायाः कुपाक्षिका वस्त्रप्रायस्य जिनशासनस्य किञ्चिद्बाधाकारिणो भविष्यन्ति परं शीघ्रमेव विप्रेण ग्रहणात् कल्किपुत्रधर्मदत्तराज्यावसरे विप्ररूपेणागतः इन्द्रो जिनशासनबाधां निवार| यिष्यतीति विचार्य निर्ममत्वान्न जग्राह तदर्द्ध तु सिद्धार्थराजमित्रविप्रस्य पूर्वं दत्तमस्ति, तद्यथा - आजन्म दरिद्रः सोमों नाम्ना विप्रो भगवद्दानावसरे देशान्तरे गतः, तत्रापि भूयः पर्यव्य निर्भाग्यत्वाद्यथा गतस्तथा गृहे आगतो भार्यया निर्भत्सितो- रे निर्लक्षण ! श्रीवीर चरित्रे अभिग्रहाः वस्त्रदानं च ॥१२१॥
SR No.600395
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorShantisagar
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages246
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy