SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ श्रीकल्पकौमुद्यां ५क्षणे ॥११८॥ श्रीवीर चरित्रे दीक्षामहोत्सवः जनसमुदायेन (सवायरेणं) सौचित्यकरणरूपसर्वादरेण (सबविभूईए) सर्वविभृत्या सम्पदा (सबविभूसाए) सर्वविभूषया शोभया (सवसंभमेणं) हर्षजनितौत्सुक्येन (सबसंगमेणं) सर्वस्वजनमेलापकेन (सवपगईहिं) अष्टादशभिर्नेगमादिनगरवास्तव्यप्रजाभिः (सबनाडएहिं) सर्वनाटकैः (सवतालायरेहिं) सर्वतालाचरैः (सवावरोहेणं) सर्वान्तःपुरेण (सवपुप्फगंधमल्लालंकारविभूसाए) सर्वपुष्पगन्धमाल्यालङ्कारशोभया (सबडियसहसन्निनाएणं) सर्ववादित्रशब्दानां मिलितो यो निनादो-महाघोषस्तेन, अल्पादिष्वपि सर्वशब्दप्रवृत्तिः स्याद् , अत आह-*महया इड्ढीए महया जुईए महया बलेणं महया वाहणेणं महया समुदएणं महया वरतुडियजमगसमगप्पयाइएणं संखपणवपडहभेरिझल्लरिखरमुहिहुडुमदुन्दुहिनिग्घोसनाइयरवेणं कुंडपुरं नगरं मझमज्झेणं निग्गच्छइ, एवं क्षत्रियकुण्डपुरमध्येन गच्छतो भगवतः पृष्ठे हस्तिस्कन्धारूढो ध्रियमाणश्वेतच्छत्रो वीज्यमानवरचामरयुगलः चतुरङ्गसेनापरिकलितो नन्दिवर्द्धनो राजाऽनुगच्छति, क्रमेण *निग्गच्छित्ता (जेणेव नायसंडवणे) यत्रैव ज्ञातखण्डवनं *उजाणे (जेणेव असोगवरपायवे) यत्रैवाशोकवृक्षः (तेणेव उवागच्छद) तत्रैवोपागच्छति ॥११५॥ (उवागच्छित्ता असोगवरपायवस्स अहे) तत्रोपागत्य चाशोकवृक्षाधः | (सीयं ठावेइ) शिबिकां रक्षयन्ति (ठावित्ता सीयाओ) रक्षयित्वा च शिबिकातः (पच्चोरुहइ) उत्तरति, (पचोरुहित्ता) उत्तीर्य च (सयमेव आभरणमल्लालंकारं) स्वयमेवाभरणमाल्यालङ्कारान् (ओमुअइ) अवतारयति, तद्यथा-मस्तकान्मुकुट कर्णयुगलात् कुण्डले कण्ठाद् ग्रैवेयकं हृदयस्थलाद् हारं बाहुभ्यां बाहुरक्षको हस्ताद्वीरवलयं अङ्गुलीभ्यो मुद्रिकाश्च वैराग्यरङ्गादारमिव प्रभुरुत्तारयति स्म, तानि चाभरणानि कुलवृद्धा स्त्री हंसलक्षणपटशाटकेन गृह्णाति, गृहीत्वा च भगवन्तमेवं वक्ति स्म-इक्ष्वाकुकुले ॥११॥
SR No.600395
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorShantisagar
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages246
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy