SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ श्रीकल्पकौमुद्यां ५क्षणे ॥११७॥ श्रीवीर चरित्रे दीक्षामहोत्सवः अयनद्वयप्रमाणान् वर्षान् यावत् (अभीए) भयरहितः (परीसहोवसग्गाणं) परीषहोपसर्गेभ्यः (खंतिखमे भयभेरवाणं) विद्युत्सिंहादिकानां क्षमया क्षमश्च (धम्मे ते अविग्धं भवउ) तव संयमधर्मे विनरहितत्वं भवतु (इतिकट्टु) इतिकृत्वा खजना (जयजयस पउंजंति) जयजयशब्दं प्रयुञ्जन्ते ॥११४॥ (तए णं समणे भगवं महावीरे) ततो यावन्महावीरः (नयणमालासहस्सेहिं) श्रेणिस्थितजननेत्रपतिसहस्रः (पिच्छिजमाणे२) प्रेक्ष्यमाणः२ (वयणमालासहस्सेहिं) | वदनश्रेणिसहस्रैः वचनश्रेणिसहस्रा (अभिथुवमाणे२) वारं वारमभिष्ट्रयमानः२ (हिययमालासहस्सेहिं) हृदयश्रेणिसहस्रैः | | (उन्नंदिजमाणे) जय जीव नन्देत्यादिभिरत्यन्तं समृद्धि प्राप्यमाणः२ (मणोरहमालासहस्सेहिं) अस्याज्ञाकरा भवाम इति जनश्रेणिमनोरथसहस्रैः (विच्छिप्पमाणे२) विशेषेण चिन्त्यमानः (कंतिरूवगुणेहिं) कान्तिरूपगुणैः स्त्रीपुरुषैः भर्तृतया स्वामितया च (पत्थिन्जमाणे२) प्रार्थ्यमानः२ (अंगुलिमालासहस्सेहिं दाइजमाणे२) अङ्गुलिमालासहस्रैः दय॑मानः२, (दाहिणहत्थेणं बहूणं) दक्षिणहस्तेन बहूनां (नरनारीसहस्साणं) नरनारीसहस्राणां (अंजलिमालासहस्साई) नमस्कारसहस्राणि | (पडिच्छमाणे२) गृह्णन् २ (भवणपंतिसहस्साई) गृहश्रेणिसहस्राणि (समइच्छमाणे२) उल्लङ्घयन् (तंतीतलतालतुडियगीयवाइअरवेणं) तन्त्रीत्यादीनां पूर्व व्याख्यातानां तथा गीतमध्ये यद्वादितेन-वादनेन यो वः-शब्दः तेन (महुरेण य मणहरेणं) मधुरेण मनोहरेण (जयरसद्दघोसमीसिएणं) जयरशब्दघोषसहितेन (मंजुमंजुणा घोसेण य) अतिकोमलेन लोकानां शब्देन च (पडिबुज्झमाणे२) सावधानीभवन् २ (सविड्ढीए) छत्रादिराजचितरूपसर्वद्धर्था (सव्वजुईए) आभरणादिसर्वकान्त्या (सबबलेणं) गजादिचतुरङ्गसेनया (सववाहणेणं) उष्ट्रवेसरशिबिकाशकटादिसर्ववाहनेन (सव्वसमुदएणं) महा ॥११७॥
SR No.600395
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorShantisagar
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages246
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy