SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ amim श्रीकल्पकौमुद्यां ५क्षणे ॥११५॥ श्रीवीर चरित्रे दीक्षामहोत्सवः भ्यां च चरणौ काश्चिच्च कटिमेखलया कण्ठं हारेण च कटिं काश्चिच्छाटकघाटपटिकयोर्विपरीतपरीधानं काश्चिञ्चन्दनरसेन चरणौ अलक्तकरसेन शरीरं काश्चित् कृतार्द्धतिलकाः काश्चित् कर्णेककुण्डलाः काश्चिदेकाञ्जितनयनाः काश्चिदेकबाहुपरिहितकञ्चुकाः काश्चित् प्रक्षालितैकचरणाः काश्चिद् भोजनेऽकृतशौचाः काश्चिदर्द्धस्नाताः विगलत्मलिलविसंस्थुलवसनाः काश्चित् करधृतशिथिलपरिधानाः काश्चिद्वातोड्डीनमस्तकवस्त्राः कुमारिकावत् काश्चिन् मार्गे स्वबालकभ्रान्त्या कृतान्यबालकग्रहणा इत्यादि, एवं प्रभोरग्रतः | स्वस्तिक१ श्रीवत्स२ नन्द्यावर्त्त३ बर्द्धमान४ भद्रासन५ कलश६ मत्स्ययुग्म७ दर्पण८ रूपाष्टमङ्गलानि यथाक्रमं चेलुः, ततोऽनुक्रमेण पूर्णकलशभृङ्गारचामराणि, ततो महती वैजयन्ती, ततो वैडूर्यरत्नदण्डं श्वेतच्छत्रं, ततः सुवर्णरत्नमयं पादपीठसहितं सिंहासनं, ततोऽष्टशतमारोहरहितानां वरतुरगाणां, ततोऽष्टशतं वरहस्तिनां ततस्तावन्तो घण्टापताकानन्दीघोषयुक्तानेकशस्त्रखेटकादिभृता रथाः, ततस्तावन्तो वरपुरुषास्ततो गजतुरङ्गरथपादातिकटकानि ततो लघुपताकासहस्रसहितः सहस्रयोजनोच्चो महेन्द्र| ध्वजः, ततः खड्गग्रहाः कुन्तग्रहाः पीठफलकग्रहाः ततो हासकारकाः नर्मकारकाः कान्दपिका जयजयशब्दं प्रयुञ्जानाः ततो बहव उग्रा भोगा राजन्याः क्षत्रियाः तलवरा माडम्बिकाः कौटुम्बिकाः श्रेष्ठिनः सार्थवाहा देवा देव्यश्च प्रभोरग्रतः पृष्ठतः पार्श्वतश्चावस्थिताः, तदनन्तरं स्वर्गमर्त्यपातालवासिन्या पर्षदा साधं (समणुगम्ममाणमग्गे) गम्यमानं अग्रतः (संखियचकियनंगलिअमुहमंगलियवद्धमाणपूसमाणघंटियगणेहिं) शङ्खवादकाः चक्रभ्रामकाः गले सुवर्णादिहलधराः भट्टाः मुखमाङ्गलिकाः, चण्डीपुत्राः इत्यर्थः, स्कन्धारोपितपुरुषाः मङ्गलपाठकाः लोके 'राउलिया' घण्टावादकैः एतेषां समूहैः परिवृतं (ताहिं) तामिः (इट्ठाहिं कंताहिं पियाहिं मणुन्नाहिं मणामाहिं उरालाहिं कल्लाणाहिं सिवाहि धनाहिं मंगल्लाहि मिअ ms manisimamalenimams camerammHAHIMPINomuramm
SR No.600395
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorShantisagar
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages246
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy