________________
श्रीकल्पकौमुद्यां ५क्षणे
॥११४॥
प्रमाणप्राप्तायां, न तु न्यूनाधिकायां (सुवएणं दिवसेणं) सुव्रतनाम्नि दिवसे (विजएणं मुहुत्तेणं) विजयमुहूर्त्ते (चंदप्पभाए | सीआए सदेवमणुआसुराए परिसाए) अनेकस्तम्भशतनिर्मितायां सुवर्णरत्नविचित्रायां पंचाशद्धनुर्दीर्घायां पंचविंशति धनुःपृ| थुलायां षट्त्रिंशद्धनुरुच्चायां नन्दिवर्धनकारितायां शिविकायां देवेन्द्रकारिता च तादृक् शिविका प्रविष्टा शुशुभे एवंविधायां | चन्द्रप्रभशिविकायां पूर्वाभिमुखः सिंहासने उपविशति, प्रभोदक्षिणपार्श्वे कुलवृद्धा हंसलक्षणपट्टशाटकं गृहीत्वा वामपार्श्वे च प्रभोरम्बधात्री दीक्षोपकरणानि गृहीत्वा पृष्ठे चैका वरतरुणी स्फारशृङ्गारा श्वेतच्छत्रहस्ता ईशानकोणे चैका पूर्णकलशहस्ता अग्निकोणे | चैका सुवर्णरत्नविचित्रदण्डव्यञ्जनहस्ता च भद्रासने उपविशति, ततो नन्दिवर्द्धनानुज्ञाताः पुरुषा यावच्छिविकामुत्पाटयन्ति ताव - त् शक्रो दक्षिणदिकस्थितां उपरितनीं बाहां ईशानेन्द्र उत्तरदिकस्थितामुपरितनीं बाहां चमरेन्द्रो दक्षिणदिकस्थितां अधस्तनीं बाहां बलीन्द्र उत्तरदिकस्थितामधस्तनीं वाहां शेषाश्च भवनपतिव्यन्तरज्योतिष्कवैमानिकेन्द्राः स्वेच्छाविकुर्वितचल कुंडलाद्याभरणधारिणः | पञ्चवर्णपुष्टवृष्टिं कुर्वन्तो दुन्दुभिं वादयन्तो यथायोग्यं शिविकामुद्वहन्ति, तत्र शक्रेशानौ तु तां बाहां मुक्त्वा चानराणि वीजयतः यावत् कुण्डग्रामं नगरं यावच्च देवानां भवनावासास्तावन्निरन्तरं सञ्चरद्भिर्देवैर्देवीमिश्च पुष्पितं वनखण्डमिव शरत्काले पद्मसर | इव पुष्पितातसीवनमिव कर्णिकारवनमिव चम्पकवनमिव तिलकवनमिव गगनमण्डलं शोभते स्म, तदा च भूमण्डले गगनम|ण्डले च देवमनुष्याणां निरन्तरवाद्यमानवरभम्मा भेरीझल्लरी मृदङ्गपटहशङ्खादिवादित्राणां निर्घोषान् श्रुत्वा स्त्रियो विह्वला जाताः, यतः कलहः कजलं सिन्दूरं वादित्रं दुग्धं जामाता चेति षट् पदार्थाः स्त्रीणामतिवल्लभा भवन्ति, तेन सर्वेषामाश्चर्यकरा नानाविधाश्श्रेष्टाः कुर्वन्ति स्म, यथा काश्चित् कस्तूर्या नयनयुगलस्याञ्जनं कजलेन च गल्लयोः शोभां काचिन्नूपुराभ्यां हस्तौ कङ्कणा
श्रीवीरचरित्रे
दीक्षा
महोत्सवः
॥११४॥