________________
श्रीकल्पकौमुद्यां ५क्षणे ॥१०७॥
A
Fauli mulamIURIHITamin auratantaram
परीषहाणां षोडशानामुपसर्गाणां (खंतिखमे) क्षमया सहनसमर्थः (पडिमाण) एकरात्रिकीभद्रादिप्रतिमानां (पालगे)
| श्रीवीर| पालकः (धीम) शानचतुष्टयवान् (अरइरइसहे) अरतिरतिसहनसमर्थः, (दविए) तत्तद्गुणभाजनं द्रव्यं (वीरिअसंपन्ने) परा
चरित्रे क्रमसहितः, ततो देवैः (से नामं कयं) तस्य नाम कुतं ('समणे भगवं महावीरे') महवीर इति३, स शुक्ल द्वितीया- आमलक्याचन्द्र इव मेरुभूमौ कल्पाकुर इव वर्द्धमानः क्रमेण शरत्पूर्णिमाचन्द्रमुखो लीलोत्पलदललोचनयुगलो दीपशिखानासिकोऽष्टमीचन्द्र- दिक्रीडा भालः कृष्णकेशभरः पक्वबिम्बोष्ठः कुन्दावदातदन्तपतिः फुल्लोत्पलगन्धनिश्वासः कमलनालकरः पद्मगर्भगौरः जातिस्मरणयुक्तो | मतिमान् श्रुतवान् अवधिज्ञानवान् धृतिकान्तिकीर्तिमान् , किंबहुना ?, सर्वमनुष्येभ्योऽप्यधिको जगत्रयतिलको जातः, अन्यदा
समानवयोमिः कुमारैः सह क्रीडन् आमलकीक्रीडार्थ नगरादहिर्गतः, तत्र च कुब्जवृक्षारोहणादिना कुमाराः क्रीडन्ति स्म, तत्र | प्रस्तावे शकेन्द्रः सभायां श्रीवीरस्य धैर्यपरगुणग्रहणादिगुणग्रहणं करोति, बालकोऽप्यबालः अबालपराक्रमः इन्द्रादिभिरपि देवैः । भापयितुं न शक्यते इति श्रुत्वा कश्चिन्मिथ्यादृष्टिदेव इन्द्रवचनं मिथ्याकर्तुं यत्र जिनः क्रीडति तत्रागत्यातिघोरदीर्घकायं अञ्जनपुञ्जसदृशं अतिघोरविषं अतिचञ्चलजिह्वायुगलं अनाकलनीयकोपप्रसरं मूर्पपृथुफणाटोपं फुत्कारं कुर्वन् सर्परूपं कृत्वा क्रीडावृक्षं वेष्टयित्वा च स्थितः, तं दृष्ट्वा च सर्वे कुमाराः भीता नष्टाः, स्थितस्तु वीरो, निर्भयमनास्तं गृहीत्वा दूरं प्रक्षिप्तवान् , ततः पुनः शीघ्रं मिलिताः कुमाराः क्रीडन्ति स्म, इत्थं तु न भीतस्ततोऽन्यथा भापयामीति विचिन्त्य बालकरूपं कृत्वा स देवो वीरेण सह क्रीडन् हारितः, तत्र च हारितेन जितः स्वस्कन्धमारोप्य वाह्यते इति पणोऽस्ति, तेन वीरं स्वस्कन्धे आरोप्य वर्द्धमानःस देवः सप्ततालप्रमाणो जातः, तत्स्वरूपं च ज्ञात्वा वीरेण वज्रकठिनया मुष्टया पृष्ठे हतः, सोऽपि तद्वेदनापीडितो मशक इव संकोचित- ॥१०७॥