SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ श्रीकल्पकौमुद्यां ५क्षणे ॥१०५॥ श्रीवीर चरित्रे | चन्द्रसूर्यदर्शनादि TIMAmanmamimummmmmisammummyammaniHIMALAICHINANIYA मेव दिने प्रातः सुवर्णमयीं ताम्रमयीं वा सूर्यमूर्ति संस्थाप्य सूर्य दर्शयेत् ,मन्त्रो यथा-"आँ अहं सूर्योऽसि दिनकरोऽसि तमोऽपहोऽसि | सहस्रकिरणोऽसि जगच्चक्षुरसि प्रसीद, अस्य कुलस्य ऋद्धिं वृद्धिं कुरु २ स्वाहा ॥" आशीर्वादो यथा-सर्वसुरासुरवन्धः कारयिता|ऽपूर्वसर्वकार्याणाम् । भूयात्रिजगच्चक्षुर्मङ्गलदस्ते सपुत्रायाः॥१॥ इति चन्द्रसूर्यदर्शनविधिः।। सम्प्रति तु तत्स्थाने बालस्यादर्शो दर्यते (छठे दिवस धम्मजागरियं करिंति) कुलधर्मेण लोकधर्मेण वा षष्ठीरात्री जागरणोत्सवं कुरुतः (एक्कारसमे दिवसे | विइकंते) एवं एकादशे दिवसे व्यतिक्रान्ते (निवत्तिए असुइजम्मकम्मकरणे) अपवित्राणां जन्मकर्मणां-सूतककार्याणां करणे कृते सति (संपत्ते वारसाहे दिवसे) आगते द्वादशे दिवसे *विउलं (असणपाणखाइमसाइम) अशनपानादि भोजनविधि | (उवक्खडार्विति) कुरुतः (उवक्खडावित्ता) कारयित्वा च (मित्तनाइनिययसयणसंबंधिपरिजणं) मित्राणि ज्ञातयःसजातीयाः निजकाः-पुत्रादयः पितृव्यादयः पुत्रीपुत्रादीनां श्वशुरादयः दासीदासादयः (नाए य खत्तिए अ) ऋषभदेवसजातीयास्तान (आमंतित्ता) निमन्त्रयतः निमन्त्र्य च (तओ पच्छा) ततः पश्चात् (ण्हाया) स्नाता, *कयबलिकम्मा कयकोउयमंगलपायच्छित्ता सुद्धप्पावेसाई मंगल्लाइं पवराई वत्थाई परिहिया, अप्पमहग्घाभरणालंकियसरीरा (भोअणवेलाए) भोजनवेलायां (भोअणमंडवंसि) भोजनमण्डपे (सुहासणवरगया) सुखासनोपविष्टौ (तेणं मित्तनाइनिययसं. बंधिपरिजणेणं) तैर्मित्रादिमिः नायएहिं खत्तिएहिं (सद्धिं तं विउलं) सार्द्ध तद्विस्तीर्ण (असणपाणखाइमसाइम) अशनादि चतुर्विधाहारं (आसाएमाणा) किंचित् स्वादयन्तौ बहु त्यजन्तौ इक्ष्वादेवि (विसाएमाणा) विशेषेण स्वादयन्तौ अल्पं त्यजन्तौ खर्जूरादिवत् (परिभुजेमाणा) सर्व भुञ्जानौ भोज्यवत् (परिभाएमाणा) अन्येभ्यो ददतौ (एवं वा विहरंति) ॥१०५॥
SR No.600395
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorShantisagar
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages246
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy