________________
श्री कल्पकौमुद्यां ५क्षणे
॥१००॥
| षिक्तः जिनः सुवर्णमुकुटः देवा हाराः, अत एव सर्वपर्वतराजोऽहमिति हर्षान्नृत्यन्निव शुशुभे ततः प्रथममच्युतेन्द्रोऽभिषेकं करोति, | तदनु क्रमेण यावच्चन्द्रसूर्यादयः, जिनस्य मस्तके श्वेतच्छत्रमिव मुखे चन्द्रकिरणपूरमित्र कण्ठे हारमिव सर्वशरीरे चीनचोलमिव स्नात्रजलं शुशुभे, देवाश्च विबुधा इति सत्यं यच्चरमजिनस्याभिषेकं कुर्वन्ति स्वयं च निर्मला भवन्ति, ततश्चत्वारि वृषभरूपाणि कृत्वा | अष्टशृङ्गाग्रान्निस्सरत्क्षीरोदकधाराभिरिन्द्रः स्वयमभिषेकं कृत्वा सुकुमालसुगन्धरक्तदिव्यवस्त्रेणाङ्गं रूक्षयित्वा चन्दनपुष्पधूपाद्यैः | पूजयित्वा जिनाग्रे रत्नपट्टके रूप्यतन्दुलैर्दर्पण १ वर्द्धमान२ कलश ३ मत्स्ययुग्म ४ श्रीवत्स५ स्वस्तिक६ नन्द्यावर्त्त ७ भद्रासन८ रूपा| प्यष्ट मङ्गलानि कृत्वा आरत्रिकं मङ्गलप्रदीपं च कृत्वा “ये मूर्त्ति तव पश्यतः शुभमयीं ते लोचने लोचने, या ते वक्ति गुणावलीं निरुपमां सा भारती भारती । या ते न्यश्चति पादयोर्वरदयोः सा कन्धरा कन्धरा, यत्ते ध्यायति नाथ ! वृत्तमनघं तन्मानसं मानसम् ॥१॥" इत्यादि स्तुत्वा च गीतगाननाटकवादित्रादिभिर्विविधमुच्सवं कुर्वन्ति स्म, तत इन्द्रो जिनमानीय मातृपार्श्वे मुक्त्वा प्रतिबि| म्बमवस्वापिनीं निद्रां च संहृत्य जिनदक्षिणवराङ्गुष्ठेऽमृतं उच्छीर्षके कुण्डलयुगलं वस्त्रयुग्मं श्रीदामरलदामाढ्यं चन्द्रोदययुग्मं सुवर्ण| कन्दुकं च मुक्त्वा द्वात्रिंशत्कोटिरत्नसुवर्णरूप्याणां वृष्टिं कृत्वा आभियोगिकदेवैरुद्घोषणां कारयति स्म यो जिनस्य जिनमातु| श्वोपरि अशुभं मनः करिष्यति तस्य शिर आर्यमञ्जरीव सप्तधा स्फुटिष्यति, नन्दीश्वरे चाष्टाद्विकोत्सवं कृत्वा स्वस्वस्थाने गताः।। इति | देवकृतः श्रीवीरजिनजन्मोत्सवः ||१७|| जंरगणिं च णं समणे भगवं महावीरे जाए तं स्यणिं च णं बहवे वेसम| णकुंडधारी तिरियजं भगा देवा सिद्धत्थरायभवणंसि (हिरण्णवासं च ) हिरण्यं रूप्यं सुवण्णवासं च वयरवासं च आभरणवासं च पत्तवासं च पुष्पवासं च फलवासं च बीअवासं च मल्लवासं च गंधवासं च चुण्णवासं च
श्रीवीर
चरित्रे
देवकृतो
जन्ममहः
॥१००॥