________________
श्रीकल्पकौमुद्यां ५क्षणे ॥९९॥
ततो दश वैमानिका विंशतिर्भवनपतयः द्वात्रिंशद् व्यन्तराः द्वौ चन्द्रसूर्यों इति चतुःषष्टिरिन्द्राः जिनपादान्ते समागताः, ततः सुव
श्रीवीर|र्णमया१ रूप्यमयाः२ रत्नमयाः३ सुवर्णरूप्यमयाः४ सुवर्णरत्नमयाः५ रूप्यरत्नमयाः६ सुवर्णरूप्यरत्नमया:७ मृत्तिकामया८
चरित्रे | अपि प्रत्येकमष्टसहस्रं कलशाः, अत्र सार्द्धद्विशतमभिषेकाः स्युः, एकैकस्मिन्नभिषेके चतुःषष्टि६४सहस्रं कलशाः भवन्ति, ते च | देवकृतो | सार्द्धद्विशतेन गुणिताः एका कोटी पष्टिलक्षाश्च भवन्तीति जीर्णविचारपत्रे, एतत्सङ्घाहिकाश्चेमा गाथाः, यथा-इंद१९४ सम१ जन्ममहः तायतीसा३३ पारसिका३ऽऽरक्ख १ लोगपालाणं४ । अणिअ७ पइन्ना१ अमिओग१ अग्गमहिसीण५ मभिसेया॥१।। चउणवइसयं एगो तित्तीसा तिन्नि एग चउ सत्त । एगो एगो पंच य णेया संखा कमेणेसि ॥२॥ पणविसजोयणतुंगो बारस य जोअणाई वित्थारो। जोयणमेगं नालुय इगकोडी सट्ठी लक्खाई ॥३॥ एवं भृङ्गारकरीदर्पणररत्नकरण्डक सुप्रतिष्ठकस्थाल४पात्रिका५पुष्पचङ्गेरिका६दिपूजोपकरणानि कलशवदष्टप्रकाराणि प्रत्येकमष्टसहस्रप्रमाणानि, तथा मागधादितीर्थानां मृत्तिकां जलं गङ्गानदीनां जलं कमलानि पद्मादिद्रहाणां क्षुल्लहिमवद्वर्षधरवैताढ्यविजयवक्षस्कारादिपर्वतेभ्यः सर्षपपुष्पगग्धान् सर्वोषधीः जलादि च अच्युतेन्द्र
MAN आभियोगिकदैवैरानयति स्म, अत्रान्तरे इयांल्लघुर्महावीरः कथं कुम्भजलधारां सहिष्यति इतीन्द्रस्य संशये जाते सति अभिषेकं न करोति, तेन सर्वेऽपि देवाः क्षीरोदकभृतैहृदयस्थलस्थापितैः कुम्भः संसारसमुद्रं तरीतुं धृतकुम्भा इव भाववृक्षं सिञ्चन्त इव धर्मप्रासादे कलशं स्थापयन्त इव स्वकीयं कर्ममलं क्षालयन्त इव शोभन्ते स्म, अथावधिज्ञानेनेन्द्रस्य संशयं ज्ञात्वा वामपादाङ्गुष्ठस्पर्शनेन मेरुपर्वतं चालयति स्म, तच्चलनेन पृथिवी चलिता, शिखराणि पतितानि, समुद्रा अपि क्षोभं प्राप्ताः, ब्रह्माण्डस्फोटसदृशे शब्दे जाते रुष्ट इन्द्रो| ऽवधिज्ञानेन ज्ञात्वा वीरं क्षमयति स्म, तथाऽसङ्ख्यतीर्थकरमध्ये केनापि पादाङ्गुष्ठेन न स्पृष्टः अनेन तु स्पृष्ट इति मेरुः स्नात्रजलेनामि- ॥ ९९॥