________________
श्री कल्पकौमुद्यां ४क्षणे
।। ९५ ।।
(पमुइय पक्कीलिएस) हर्षितेषु सुभिक्षसुस्थतादिना वसन्तोत्सवादिना क्रीडां कर्तुं प्रवृत्तेषु (जणवएस) तद्देशवासिलोकेषु (पुद्द - | रत्तावर त्तकालसमयंसि ) मध्यरात्रिसमये (हत्थुत्तराहिं) उत्तरफाल्गुनी (नक्खत्तेणं) नक्षत्रेण सह (जोगमुवागएणं) चन्द्रे योगमुपागते सति (आरुग्गा) निराबाधा त्रिशला (आरुग्गं) निराबाधं ( दारयं पयाया ) पुत्रं प्रसूता ||९६ ||
विश्ववन्द्यश्रीवीरविभुशासन सौधासाधारणाविवेचनीयस्तम्भायमानवादिकन्दकुद्दालमहामहोपाध्या
यश्रीधर्मसागरगणिशिष्यमहोपाध्यायश्रुतसागरशिष्य महोपाध्यायशान्तिसागरकृतायां कल्पकौमुद्यां चतुर्थः क्षणः समाप्तः ॥
श्रीवीर
चरित्रे
श्रीवीरजन्म
॥ ९५ ॥