________________
श्रीकल्पकौमुद्यां
अथ पञ्चमः क्षणः।
श्रीवीर
चरित्रे जन्ममहे दिक्कु
५क्षणे
॥९६॥
O
मायः
(जं रयणि च णं समणे भगवं महावीरे जाए) भगवत्प्रभावात् अचेतना अपि दिशः हर्षिता इव प्रसन्ना जाता, वाता| अपि सुखकराः मन्दं मन्दं ववुः, जगत्रये उद्योतोऽभूत् , आकाशे देवदुन्दुभिर्ध्वनितः, नारका अपि हर्षिताः, पृथिव्यपि उच्छासं प्राप्ता, एवंविधायां यस्यां रात्रौ भगवान् जातः साणं रयणी (बहहिं देवेहिं देवीहि य) बहुभिरिन्द्रादिभिर्देवैः बहुमिश्व षट्पञ्चाशद्दिकुमार्यादिभिर्देवीमिः (ओवयंतेहिं उप्पयंतेहि य) जन्मोत्सवार्थ स्वर्गादिभ्यो भूमिमागच्छद्भिः, मेरुशिखरगमनायोर्ध्व गच्छद्भिः (उम्पिजलमाणभूआ) अत्याकुलेव (कहकहगभूआ आविहुत्था) अव्यक्ताक्षरकोलाहलमयीव सा रात्री जातेति,अत्र देवीदेवीकृतो जन्मोत्सवः सूचितः, तत्र प्रथमं षट्पञ्चाशदिक्कुमार्यः शाश्वतं स्वाचारं कुर्वन्ति, तद्यथा-भोगङ्करा१ भोगवतीर सुभोगा३ भोगमालिनी४ सुवत्सा५ वत्समित्रा६ पुष्पमाला७ अनिन्दिता८ एता अष्टौ अधोलोकवासिन्यः सिंहासनकम्पादवधिज्ञानेन अर्हज्जन्म ज्ञात्वा सूतिगृहमागत्य प्रभुं प्रभुमातरं च नत्वा ईशानकोणे सूतिगृहं संवर्तकवातेन कचवरादिकर्षणेन योजनं यावद् भूमिकां शोधयंति१, ततो मेघङ्करा१ मेघवतीर सुमेघा३ मेघमालिनी४ तोयधारा५ विचित्रा वारिषेणा७ बलाहका८ एता ऊर्ध्वलोकादागत्य समातृकमर्हन्त नत्वा हर्षात् गन्धोदकपुष्पवृष्टिं कुर्वन्ति२, ततो नन्दा उत्तरानन्दा नन्दिवर्द्धिनी४ विजया५ वैजयंती६ जयंती७ अपराजिता८ एताः पूर्वरुचकपर्वतादागत्याने दर्पणं धरन्ति३, ततः समाहारा१ सुप्रदत्तार सुप्रबुद्धा३ यशोधरा४ लक्ष्मीवती५ शेषवती६ मित्रगुप्ता७ वसुन्धरा८ एता दक्षिणरुचकादागत्य स्नानार्थ पूर्णकलशान् धृत्वा गीतगानं
IN MilliAIIMHEIDhemeti
INHERITAILSHILIBAHANIRAI
m
e P intiman RING
time