________________
लानि, पूर्वदिशि चतसृणां महन्तरदेवीनां चत्वारि कमलानि, आग्नेय्यां - गुरुस्थानीयानां अभ्यन्तरपार्षददेवानां अष्टसहस्राणां अष्टसहस्रकमलानि । दक्षिणस्यां मित्रस्थानीयानां दशसहस्रमध्यमपार्षदसुराणां दशसहस्रकमलानि । नैऋत्यां किङ्करस्थानीयानां बाह्यपार्षददेवानां द्वादशसहस्रकमलानि । पश्चिमदिशिहस्त्य १ व २ रथ ३ पदाति ४ महिष ५ गन्धर्व ६ नाव्य ७ (ग्रन्थाग्र - ८००) रूपसप्तपद्मानि ॥२॥ तृतीयवलये षोडशसहस्राणि षोडशसहस्राङ्गरक्षकाणां कमलानि ॥३॥ चतुर्थवलये द्वात्रिंशल्लक्षाणि अभ्यन्तराभियोगिकदेवानां कमलानि ।। ४ ।। पञ्चमे वलये मध्यमाभियोगिकानां चत्वारिंशल्लक्षकमलानि ॥ ५ ॥ षष्ठे वलये अष्टचत्वारिंश ४८००००० लक्षबाह्याभियोगिकसुराणां ४८००००० लक्षाणि कमलानि ॥ ६ ॥ एवं मूलकमलेन सह सर्वकमलसङ्ख्या एका कोटि १ विशति २० लक्षाः पञ्चाशत्सहस्राणि ५० शत १ मेकं विंशति २० वेति । एवमेभिः परिवृत्ते तत्र कमले लष्टं मनोज्ञं यथा भवति एवं संस्थितां अन्यत्रावस्थितापि पद्महृदवासिनीति भगवती उच्यते इति सूचनार्थ विशेषणं । सुपइट्ठिअन्ति, सुप्रतिष्ठौसमतलनिवेशौ कनकमयकूर्मेण उन्नतत्वात्सदृशमुपमानं ययोस्तादृशौ च चरणौ यस्याः सा तथा ताम् । अत्युन्नतं पीनं अङ्गुष्ठाङ्गं तत्र रजिता - रञ्जिता इव लाक्षारसेन मांसला उन्नता मध्योन्नतास्तनवलिना ताम्रा - अरुणाः स्निग्धा - अरुक्षा नखा यस्याः सा ताम् । कमलपत्रवत्सुकुमारं करचरणं यस्याः सा चासौ कोमलवराङ्गुलिश्च सा तां । कुरुविन्दावर्त - भूषणविशेषः आवर्तविशेषो वा तद्वत्यौ - वृत्तानुपूर्वे जङ्घे यस्याः सा । तथा जात्याञ्जनभ्रमरजलदमकर इव वर्णेन जात्याञ्जनभ्रमरजलदप्रकरस्तथा
१६