________________
ल्पि
भूता ऋग्वी-सरला समाऽविषना संहिता-निरन्तरा तनूका-सूक्ष्मा आदेया-सुभगा लटभा-सविलासा सुकुमारेभ्योऽपिशिरीषपुष्पादिभ्योऽपि मृद्धी-सुकुमारा रमणीया रोमराजी यस्याः सा तानाभिमण्डलेन सुदरं विशालं प्रशस्तं सुलक्षणत्वात् जघनं यस्याः सा ताम् । करतलेन-मुष्ठिना माइअत्ति मेयं मानं वा प्रशस्तत्रिवलीकं शोभनवलित्रययुक्तं मध्यं यस्याः सा ताम् । मणयश्चन्द्रकान्ताद्याः रत्नानि-वैडूर्यादीनि, कनकं-पीतवर्ण, तपनीयं तदेव रक्तं, तत्त जात्यत्वाद्विमलमहाशब्दाभ्यां विशेषितं तेषां पानि आभरणानि-अङ्गपरिधेयानि च भूषणानि-उपाङ्गपरिधेयानि तैर्विराजितानि यथासङ्ख्यमङ्गोपाङ्गानि अङ्गानि-शिरोहृदयादीनि, उपाङ्गानि-अगुल्यादीनि यस्याः सा ताम् । हारेण विराजत् कुन्दमालया परिणद्धं, जलजलिंजतत्ति-जाज्वल्यमान-भृशं देवीप्यमानं स्तनयुगलमेव विमलौ कलशौ यस्याः साताम् । आहृतैः-सादरैः प्रत्ययितैराप्तैविज्ञानिकैविभूषितेन-विरचितेन सुभगैष्टिहारिभिर्जालकैर्गुच्छविशेष रुज्वलेन मुक्ताकलापेनोपलक्षितां, उरस्थया दीनारमालया विरचितेन विराजितेन कण्ठस्थरत्नमयसूत्रेण चोपलक्षितां,आर्षत्वादसोपसक्तमिति विशेषणमपि परं ततोऽसयोः-स्कन्धयोरुपसक्तं-लग्नं यत्कुण्डलयुगलं तस्योल्लसन्ती-मोच्छलन्ती शोभमाना सती प्रशस्ता प्रभो यत्र, तथाभूतेन शोभा-दीप्तिः स एव गुणस्तस्यसमुदयः प्राग्भारस्तेन, किंभूतेन?आननकौटुम्बिकेन यथा किल राजा कौटुम्बिकै ति तथा मुखमपि शोभागुणसमुदयेनेति, मुखनृपकौटुम्बिककम्पेन शोभागुणसमुदयेन चोपलक्षितां, प्राग्वत् परनिपाते पज्वलन्तौ दोसिमन्तौ करो ताभ्यां गृहीताभ्यां कमलाभ्यां मुक्तं-क्षरत्तोयं मकरन्दरसो यस्याः सा तथा