________________
ताम् । लीलया न पुनः स्वेदापनोदार्थ स्वेदस्यैवाभावात् वातार्थ-वातोत्क्षेपार्थ कृतो पक्षक-स्तालवृन्तं तेनोपलक्षिताम्, सुविशदः-स्पष्टो न पुनर्जटाजूटवदविवृतः कृष्णः-श्यामो घनोऽविरलः सूक्ष्मस्तलिनो लम्बमानः केशहस्तः-केशपाशो यस्याः सा ताम् । ४।२६॥
[इति द्वितीयं व्याख्यानं]
__ [अथ तृतीयं व्याख्यानं] तओ पुणो सरसकुसुममंदारदामरमणिज्जभूअं, चंपका-सोग-पुन्नाग-नाग-पिअंगु-सिसिमुग्गर-मालिआ-जाइ-जूहिअ-कोल्लकोज्ज-कोरिंट-पत्तदमणयनवमालिअ-बउल-तिलय-वासंतिअपउमुप्पल-पाडल-कुंदा-इमुत्त-सहकारसुरभिगंधि, अणुवममणोहरेणं गंधेणं दसदिसाओ वि वासयंतं, सव्वोउअसुरभिकुसुममल्लधवलविलसंतकंतबहुवन्नभत्तिवित्तं, छप्पयमहुअरिभमरगणगुमगुमायतनिलिंतगुंजंतदेसभागं, दाम, पिच्छइ, नभंगणतलाओ ओवयंतं । ५॥ ३७॥
दामस्वप्नः सुगम एव । नवरं सरसकुसुमं यन्मन्दारदाम तेन रमणीयभूत-रम्यं सनातं । सर्वर्तुकंयत्सुरभिकुसुममाल्यं तेन धवलं च तबहिलसत्कान्तबहुवर्णभक्तिचित्रं चेति विशेषणकर्मधारयः । अनेन धवलवर्णस्याधिक्यं लक्षितं । षट्पद-मधुकरीनमरा-जातिविशेषास्तेषां गणः स गुमगुमायमानो