________________
पीवराः सुश्लिष्टा, विशिष्टाः, तीक्ष्णा या दंष्ट्रास्ताभिर्विडम्बितं अलंकृतं मुखं यस्य स तथा ततः कर्मधारयः तं, परिकर्मिताविव जात्यकमलवत्कमलौ प्रमाणेन मात्रया शोभमानौ लष्टौ ओष्टौ यस्य तं । रक्तोत्पलपत्रवत मृदुसुकुमालतालु च निर्लालिताग्रा लपलपायमाना जिह्वा यस्य तं । मुषा - मृण्मयी तद्गतं यत्प्रवरकनकं तदपि तापितमत एव आवर्तायमानं तद्वद्वृसे विमलतडित्सदृशे नयने यस्य तं । विशालौ पीवरौ ऊरू यस्य तं । मृदूनि-विशदानि सूक्ष्माणि लक्षणैः प्रशस्तानि विस्तीर्णानि दीर्घाणि केसराणि स्कन्धरोमाणि तेषामाटोपेन उद्धततया शोभितं । उच्छ्रितं सुनिर्मितं-कुण्डलीकृतं सुजातं सम्पूर्ण आस्फोटितं आच्छोटितं लागूलं पुच्छच्छटा येन तं सोमं सौम्यं वा मनसाऽक्रूरं, सौम्याकारं हृद्याकृतिं, लीलायन्तं, मन्थरगतिं । वदनस्य- मुखकुहरस्य श्रिये -शोभार्थं पल्लव इव रक्तत्वमृदुत्वाभ्यां पल्लवः । एवंविधा प्राप्ता प्रसारिता चार्वी जिह्वा यस्येति स तथा तं । ३५ । ३ ॥
तओ पुणो पुन्नचंदवणा, उच्चागयट्ठाणलट्ठसंठिअं, पसत्थरूवं, सुपइट्ठिअकणगमय कुम्मसरिसोवमाणचलणं, अच्चुन्नयपीणरइअमंसलउन्नयतणुतंबनिद्धनहं, कमलपलाससुकुमालकरच - रणकोमलवरंगुलिं, क्रूरुविंदावत्तवयाणुपुव्वजंघं, निगूढजाणुं गयवरकरसरिसपीवरोरुं, चामीकररइअमेहलाजुत्तकं विच्छिन्न सोणिचकं जन्चंजणभमरजलयपयरउज्जुअसमसंहिअतणुअआइज्जलडहसुकुमालमउअरमणिज्जरोमराईं, नाभीमंडलसुंदरविसालपसत्थजघणं, करयलमाइअ