SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ अथ स्वमव्याख्याः - तरणं सेत्यादि, ततः सा त्रिशला तत्प्रथमतया इभं स्वप्ने पश्यति । अत्र च प्रथममिभदर्शनं सामान्यवृत्तिनाश्रित्योक्तं, अन्यथाद्यान्तिमजिनमातरो वृषभसिंहावपश्येतां इति वृद्धाः । तओअन्ति, ततौजसो महाबलाः चत्वारो दन्ता यस्य स तथा तं कसिअत्ति उच्छ्रितस्तथा, गलिअन्ति निर्जलो विपुलजलधरो - विस्तीर्णमेघः हारनिकरः - पुञ्जीकृतहारः, दकरजांसि - शीकराः, महारजतशैलोवैताढ्यस्तद्वत्पाण्डुरतरं पाण्डुराङ्गं । वा समागता मधुकरा यत्र तथाविधं यत्सुगन्धं, दानं-मदस्तेन वासितं कपोलमूलं यस्य तं देवराजकुञ्जर - ऐरावणस्तद्वद्वरं प्रमाणं यस्य तं सर्वेषां लक्षणानां कदम्बं समूहो जातमस्येति सर्वलक्षणकम्बितस्तं वरश्चासावुरुर्विशालश्च वरोरुस्तम् ॥ १ ॥ तओ पुणो धवलकमलपत्तपयराइरेगरूवप्पभं, पहासमुदओवहारेहिं सव्वओ चेव दीवयंतं, अइसिरिभरपिल्लणाविसप्पंतकंतसोहंतचारुककुहं, तणुसुद्धसुकुमाललोमनिद्धच्छविं थिरसुबद्धमंसलोवचिअलट्ठसुविभत्तसुंदरंगं, पिच्छर, घणवट्टलट्ठउक्कितुप्पग्गतिक्खसिंगं, दंतं, सिवं, सामाणसोभंतसुद्धदंतं, वसहं, अमिअगुणमंगलमुहं ॥ ३४ ॥ ततः पुनर्वृषभं पश्यति । कीदृशम् ? धवलकमलपत्रप्रकारातिरेकाऽधिका रूपप्रभा यस्य तं, प्रभासमुदयो- दीप्तिजालं तस्योपहारा विस्तारणानि तैः सर्वतः सर्वदिशो दीपयन्तं । अतिश्रीभर-उत्कृष्टशोभाभरस्तेन यत्प्रेरणमिव प्रेरणं तेनैव विसर्पदुल्लसत्कान्तं - दीप्तं शोभमानं चारुककुदं स्कन्धो यस्य तं, १५
SR No.600394
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorVinayvijay, Mafatlal Zaverchand Gandhi
PublisherYashovijay Pustakalay
Publication Year1935
Total Pages378
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy