________________
कल्प
सहीलिंगनवृत्या शरीरप्रमाणगण्डोपधानेन यत्तत्सालिङ्गनवृत्तिकं तस्मिन् । उभयतः उभौ शिरोऽन्तपादा- I all दीपिका न्तावाश्रित्य बिब्बोअणत्ति उपधाने-गण्डके यत्र तत्तथा। अतएवोभयत उन्नते, मध्ये नतं च तद्गम्भीरं च महत्वात् नतगम्भीरं अथवा मध्येन च मध्यभागेन तु गंभीरं अवनते गङ्गापुलिनवालुकाया योऽवदालोऽवदलनं पादादिन्यासे अधोगमन मित्यर्थस्तेन । सालिसएत्ति-सदृशके दृश्यते च हंसतूल्यादिष्वयं न्यायोऽतिनम्रत्वात् । उवचिअत्ति परिकर्मितं यत्क्षौमं अतसीमयं दृकुलं-वस्त्रं तस्य युगलापेक्षया यः पट्टःएकशाटकस्तेन प्रतिच्छन्ने-आच्छादिते,सुष्टुविरचितं रजस्त्राणं आच्छादनविशेषोऽपरिभोगायां यत्र, रक्ताशुकसंवृते मशकगृहाभिधानवस्त्रावृते, सुरम्येऽतिरमणीये, आजिनक-चर्ममयो वस्त्रविशेषः स च स्वभावादतिकोमलो भवति, रुतं-कर्पासपक्ष्म, बूरो वनस्पतिविशेषः, नवनीतं-म्रक्षणं, एभिस्तुल्यः स्पर्शो यस्य तत्तथा 'तूलत्ति'-पाठे तूलं-अर्कतूलं, सुगन्धाभ्यां वरकुसुमचूर्णाभ्यां सत्पुष्पजातिवासयो. गाभ्यां यः शयनस्य-शय्यायाः उपचारः-पूजा तेन कलिते ।
तएणं सा तिसला खत्तिआणी तप्पढमयाए, चउदंतमृसिअगलिअविपुलजलहरहारनिकरखीरसागरससंककिरणदगरयरययमहासेलपंडुरतरं समागयमहुअरसुगंधदाणवासिअकबोलमूलं, देवरायकुंजरवरप्पमाणं, पिच्छइ, सजलघणविपुलजलहरगज्जिअगंभीरचारुघोसं, इभं, सुभ, सव्वलक्खणकयंबिअं वरोरुं ॥ १ ॥ ३३॥