________________
सुत्तजागरा ओहीरमाणी ओहीरमाणी इमे एआरूबे ओराले कल्लाणे जाव चउद्दसमहासुमिणे पासित्ताणं पडिबुद्धा तं जहा-गय १ वसह २ सीह ३ अभिसेअ ४ दाम ५ सारी ६ दिणयरं ७ झयं ८ कुंभं । पउमसर १० सागर ११ विमाण १२ भवण १२ रयणुच्चय १३ सिहिं च १४ ॥ ३२ ॥
तंसि तारिसगंत्ति, तस्मिंस्तादृशे, वक्तुमशक्यस्वरुपे, पुण्यवतां योग्य इत्यर्थः । वासघरंसित्ति, वासभवने अभ्यन्तरतोऽभ्यन्तरे भित्तिभागे सचित्रकर्मणि- चित्रयुक्ते, बाहिरउत्ति बाह्यतो दुमितं- धवलितं घृष्टं कोमलपाषाणादिना अतएव ममृणं यत्तत्तथा । विचित्तेति विचिन्त्रो विविधचित्रयुक्तः उल्लोच उपरिभागो यत्र चिल्लिअंति दीप्यमानं तलमधोभागो यत्र ततो विशेषणकर्मधारयः । बहु-अत्यर्थ, समोऽनिनोन्नतः पञ्चवर्णमणिकुट्टिमकलितः सुविभक्तः सुविहितस्वस्तिको भूमिभागो यत्र तत्तथा । तत्र पञ्चवर्णेन सरसेन - सुरभिणा मुत्तेन- क्षिप्तेन पुष्पपुञ्जलक्षणेन उपचारेण पूजया कलिते, कालागुरुश्च कृष्णागुरुः प्रवरं कुन्दरुष्कं चीडाभिधानो गन्धद्रव्यविशेषः, तुरुष्कं च सिल्हकं, धूपश्च दशाङ्गादिः गन्धद्रव्यसंयोगज इति द्वन्द्वः, तेषां सम्बन्धी यो मघमघायमानोऽतिशयवान् गन्धः उद्धृतस्तेनाभिरामे रम्ये । सुष्ठु गन्धवराणां -प्रधानवासानां गन्धो यस्मिन्नस्ति तत्सुगन्धवरगन्धिकं तत्र, गन्धद्रव्यगुटिका तद्भूते सौरभ्यातिशयाद्गन्धद्रव्यगुटिका कल्पे इत्यर्थः तस्मिन् तादृशके शयनीये - तल्पे । सालिंगणेत्यादि