SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ दीपिका ततो मरीचिः प्रभौ निवृत्ते साधुभिः सह विहरन माग्वत साधुभ्यः शिष्यान् ददौ । एकदा च तं ग्लानं न कोऽपि | साधुः सुश्रुषति सोऽचिन्तयदेते मबोधिता अपि न मां सेवन्तेऽतो रोगमुक्तस्य ममैकः शिष्योऽस्तु इति चिन्तापरस्य | निरुजस्तस्य कपिलाख्यो राजपुत्रो मिलितः। सः तद्देशनया प्रबुद्धस्तेनोक्तम् 'भोः कपिल ! साधुपार्थ गत्वा धर्म | प्रपद्यस्व' इत्युक्ते कपिलोऽवक् किं भवन्मार्गे धर्मो नास्ति' ततो मरिचिः 'कविला इत्थं पिइहयं पित्ति' उत्सूत्र बभाषे।। ततः स तदन्तिके प्रवजितः । ततो मरीचिश्चतुरशीतिलक्षपूर्वायुर्भुक्त्वा चतुर्थभवे ब्रह्मलोके उत्कृष्टायुः सुरः । ततःश्च्युतः | पञ्चमे भवे कोल्लाकसन्निवेशेऽशीतिलक्षपूर्वायुकौशिको द्विजः । प्रान्ते त्रिदण्डी भूत्वा मृत्वा पद्मानन्दकाव्यानुसारेण षष्ठे भवे सौधर्मे सुरः तदपेक्षया च द्वाविंशतितमो मनुजभवो न गण्यते इति न भवाधिक्यशङ्कापि । श्रीवीरचरित्रा| धनुसारेण तु तिर्यगादिभवं भ्रान्त्वा षष्ठे भवे स्थुणापूर्या द्वासप्ततिलक्षपूर्वायुः पुष्पो द्विजः, प्रान्ते त्रिदण्डी भूत्वा मृत्वा | | च सप्तमे भवे सौधर्मे सुरः ॥७॥ ततः श्च्युतोऽष्टमे भवे चैत्यसनिवेशे षष्टिलक्षपूर्वायुरग्नियोतो द्विजः ॥८॥ पान्ते च | त्रिदण्डी भूत्वा मृत्वा नवमे भवे इशाने सुरः॥९॥ ततो दशमे भवे मन्दरग्रामे षट्पञ्चाशल्लक्षपूर्वायुरग्निभूतो द्विजोऽन्ते त्रिदण्डी । चैकादशे भवे सनत्कुमारे सुरः । ततो द्वादशे भवे श्वेताम्ब्यां पुर्या चतुचत्वारिंशल्लक्षपूर्वायुर्भारद्वाजो द्विजोऽ न्ते त्रिदण्डी च । त्रयोदशे भवे माहेन्द्रे सुरः। ततो भूयो भवं भ्रान्त्वा चतुर्दशे भवे राजगृहे चतुत्रिंशल्लक्षपूर्वायुः स्थावरो । द्विजोऽन्ते त्रिदण्डी च मृत्वा पञ्चदशे भवे ब्रह्मलोके सुरः । ततो भूयोऽपि भवं प्रान्त्वा षोडशे भवे विश्वभूति म कोटिवर्षायुः क्षत्रियोऽभूत्, स च सम्भूतिमुनिपार्वे प्रव्रज्य वर्षसहनं तपस्यन् मासोपवासपारणे मथुरां प्रविष्टः, तत्र चैकया | | गवा भूपातितः सन् क्षत्रियैर्हसितः । ततः क्रुधा तां गां श्रृंगयोहीत्वा खे भ्रामयत्, तपसा चानेन भूयिष्ठवीर्यो भूया- ३१
SR No.600394
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorVinayvijay, Mafatlal Zaverchand Gandhi
PublisherYashovijay Pustakalay
Publication Year1935
Total Pages378
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy