________________
समिति निदानं चक्रे । ततो मृत्वा सप्तदेशे भवे शुक्रे मुरः । ततोऽष्टादशे भवे पोतनपुरे प्रजापते रामो मृगावत्याः कुक्षौ । चतुरशीतिलक्षवर्षायुस्त्रिपृष्टाख्यो हरिस्ततो मृत्वैकोनविंशतितमे भवे सप्तमपृथिव्यां नारकः । ततो विंशतितमे भवे सिंहः। ततो एकविंशतितमे भव चतुर्थभूवि नारकः। ततस्तियंगादिभवं भ्रान्त्वा द्वाविंशतितमे भवे मनजत्वं प्राप्यार्जितशुभकर्मा त्रयोविंशतितमे भवे मुकाराजधान्यां धनञ्जयधारिण्योहे चतुरशीतिलक्षवर्षायुश्चक्रवर्ती स च पोटिलाचार्यसमीपे प्रव्रज्य चतुर्विंशतितमे भवे शुक्रे सुरः । ततः पञ्चविंशतितमे भवे भारतेऽत्र छत्रिकापूर्वी जितशत्रो राज्ञो भद्रायाः कुक्षौ || पञ्चविंशतिलक्षवर्षायुनंदनाख्यः सुतः, स च पोटिलाचार्यान्तिके प्रव्रज्य सततं मासोपवास विंशत्या स्थानस्तीयकृत् नामगोत्रं निकाचयित्वा लक्षवर्षव्रतपर्यायो माससंलेखनया षड्विंशतितमे भवे माणते पुष्पोत्तरावतंसकविमाने उत्कृष्टायुर्देवस्ततः सप्तशिति तमे भवे ब्राह्मणकुण्डग्रामनगरे ऋषभदत्तस्य विमस्य देवानन्दायाः पल्याः कुक्षावुत्पनः ।
नो चेव णं जोणीजम्मणनिक्खमणेणं निक्खमिंसु वा निक्खमंति वा निक्खमिस्संति वा। अयं च णं समणे भगवं महावीरे जंबुद्दीवे दीवे भारहवासे माहणकुंडग्गामे नयरे उसमदत्तस्स माहणस्स कोडालसगुत्तस्स भारिआए देवाणंदाए माहणीए जालंधरसगुत्ताए कुच्छिसि गम्भत्ताए वक्ते । २० जोणीजम्मणेत्यादि, योन्या जान्मार्थ निष्क्रमणेन निरक्रमिषुः निष्कामन्ति निष्कमिष्यन्ति ॥२०॥