________________
कृत्य कृतलक्षयोजनविग्रह : सौधर्म जगाम । तदनु सौधर्मेन्द्रमुक्तज्वलज्ज्वालाकुलितवज्रपराभूतोऽणूकृतविग्रहो भगवत्पादमध्ये निलीनः। पश्चात् समागतेन समुप्पात्तवज्रेण वज्रिणा मुक्तः-सन् स्वस्थानं जगाम इति ॥८॥
- अहसयसिद्धा-अष्टाभिरधिकं शतं अष्टशतं. अष्टशतं चतेच ते सिद्धाश्च निवृत्ताः अष्टशतसि Ka द्धास्ते च उत्कृष्टावगाहनामाश्रित्य श्रीवृषभस्वामिना सह सिद्धास्तदुक्तम्रिसहोरिसहस्ससुआ भरहेण विवज्जिआ उ नवनवई।अट्ठयभरहस्ससुआ,सिद्धिगया एगसमयम्मि। ___मध्यमावगाहनायां त्वनेकशोऽष्टशतं सिध्यति । न च तदाश्चर्यम् ॥९॥
असंजयाणत्ति-असंयता अब्रह्मचारिणस्तेषां पूजासत्कारः असंयतपूजासत्कारः अस्यामवसर्पि ण्यां सुविध्याद्यष्टतीर्थकृतां सप्तस्वन्तरेषु साध्वभावाद्गहस्थीभूतब्राह्मणनां पूजाप्रवृत्तेति ॥१०॥
दशाप्येतानि-अनन्तेन कालेन अस्मिन्नवसप्पिणीरूपे काले जातानि। एवं शेषेषु भरतैरावतेष्वपि भाव्यानि। उक्तं च तीर्थाद्वारप्रकीर्णके दससुवि वासेसु एवं दस दस अच्छेरयाणि णेआणीति,परं सर्वत्र चमरोत्पाताभावात्तत्रत्यवासुदेवस्यात्रागमनासंभवाच्चान्येनापि केनचिद्भाव्यमिति । तथा एतान्याश्चर्याणि च केषां तीर्थकृतां वारेषु जातानीत्युच्यते-उसहे अहिअसयं सिद्ध १ सीअलजिणंमि हरिवंसो २ नेमि जिणेऽपरङ्का-गमणं कण्हस्स सम्पत्तं ३॥१॥ इत्थीतित्थं मल्ली ४ पूआ अस्संजयाण नवमजिणे ५ अवसेसा अच्छेरा, वीरजिणंदस्स तित्थम्मि ५॥२॥