________________
दीपिकाः
कल्प
णाबा । चक्षुर्दयेभ्यः-चक्षुरिव चक्षुः श्रतज्ञानं शुभाशुभार्थविभागोपदर्शकत्वात् तद् दयन्ते इति चाईयास्तेभ्यः,मार्गदयेभ्यः-मार्ग सम्यादर्शनादिकंमोक्षपथं दयंते इति । शरणदयेभ्यः-रागादिभयभीतसत्वत्राणकारिभ्यः । जीवदयेभ्यो-जोव-भावप्राणधारण-अमरणधर्मत्वं दयंते इति जीवदयास्तेभ्यः । बोधियेभ्यः-बोधिः परत्र जिनधर्मप्राप्तिः । धर्मदयेभ्यः-धर्म दुर्गतिपतजन्तुडरणस्वभावं दयन्ते इति । धर्मदेशकेभ्यः-धर्मदेशसर्वचारित्ररुपं देशयन्तीति। धर्मनायकेभ्यः-धर्मस्य क्षायिकज्ञानादिरूपस्य नायकाः तदशीकारात् । धर्मसारथिभ्यः-धर्मस्य सारथय इव, यथाहि सारथी रथरथिकाश्वान् सम्यक् प्रवर्तयति-रक्षति च एवमहीतापि चारित्रधर्माङ्गानिसंयमात्मप्रवचनानीति भावः । अत्र सम्प्रदाय:
तथाहि श्री महावीरो विहरन्नेकदा महीम् । उद्याने समवासार्षीत् पुरा राजगृहाद बहिः॥१॥ पुत्रः श्रेणिकधारिण्योस्तत्र श्रुत्वा विभोगिरः । प्रबुद्धोऽष्टौ मियास्त्यक्त्वा, मेघो दीक्षामुपाददे ॥२॥ ग्रहणा-सेवना-शिक्षा शिक्षायै स्वामिनार्पितः । स्थविराणामसौ तैस्तु, शायितो द्वारवेश्मनि ॥ ३॥ निर्यद्भिः प्रविशद्भिश्च, साधुभिस्तत्र भूपभूः । सो सकृज्जानुहस्ताभ्यां, कूपराधैरघव्यत ॥४॥ प्रमृज्यदभिश्च सर्वाङ्गं, तथा गुण्ड्यत रेणुना । यथासौ क्षणमप्येकं, निद्रां माप न तनिशि ॥५॥ दध्यौ सोऽथ पुरा मे मी सादराः साधयोऽभवन् । इदानीं पाणिपादाधैर्लेष्टुवद् घट्टयन्ति माम् ॥ ६॥ पूर्व क्व मे सुखावासो, दुःखावासो ह्ययं क्व च । क्च पुष्पशय्यास्वापो मे, श्रस्तरे लुठनं क्व च ॥ ७॥