SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ इति अर्कयोनिवर्ज द्वादशार्थ भगयुक्तेभ्यः । आदिकरेभ्यः - आदिः - श्रुतधर्मस्य अर्थापेक्षया नित्यत्वेऽपि शब्दापेक्षया स्वस्वतीर्थेष्वादौ करणात् । तीर्थकरेभ्यः - तीर्थ- सङ्घः प्रथम गणधरो वा तत्स्थापनात् । स्वयंसंवुद्धेभ्यः, -परोपदेशं विना तत्त्वावबोधात् । कुत एवं १ यतः पुरुषोत्तमेभ्यः - संसारेऽपि ( ग्रन्थ ५०० ) परार्थप्राधान्यस्वार्थ गौणत्वौचित्यादीनभावकृतज्ञतागाम्भीर्यादिभिः उत्तमत्वमेवोपमात्रयेणाह - पुरुषेषु सिंहा इव कर्मशत्रुषु क्रूरत्वात्, परीषहेषु सावज्ञत्वात्, उपसर्गेभ्यो निर्भयत्वाच्च । पुरुषवरपुण्डरीकेभ्यः - पुण्डरीकाणि-धवलकमलानि पुरुषेषु वराणि च तानि पुण्डरीकाणि पुरुषवरपुण्डरीकाणि तेभ्यः, यथाहि पुण्डरीकं पङ्के जातं जलैः पोषितं तदुभयं विहाय तिष्ठति लक्ष्मीस्थानं भ्रमरादिसेव्यं च स्यात्, एवं जिना अपि कर्मपङ्के जाता भोगजलैर्वर्धिता उभयं त्यक्त्वा जगल्लक्ष्मी निवासा नृपादिसेव्याश्च । पुरुषवरगन्धहस्तिभ्यः - इति- मार्यादिक्षुद्रगजानां भगवद्विहारपवनगन्धादेव भङ्गात्। लोकोत्तमेभ्यः-लोकस्य भव्यलोकस्य उत्तमाः चतुस्त्रिंशदतिशयोपेतत्वात् । लोकनाथेभ्यः-नाथाश्च भव्यानां अलब्धसम्यक्त्वादिप्रापणाद्योगस्य प्राप्तस्य तस्य रक्षणात् क्षेमस्य च कारकत्वात् । लोकहितेभ्यः-लोकस्यैकेन्द्रियादिप्राणिगणस्य पश्चास्तिकायात्मकस्य वा सम्यक् रक्षाप्ररूपणाभ्यां हितेभ्यः । लोकप्रदीपेभ्यः - लोकस्य देशनायोग्यनरदेव तिर्यगरुपस्य प्रदीप इव तेभ्यः । लोकप्रद्योतकेभ्यःगणधरादेर्विशिष्टसत्वस्य प्रद्योतं - प्रकाशं कुर्वन्ति इति । अभयदयेभ्यः - प्राणान्तकारिण्यपि नभयं ददते इति, इहलोक १ परलोक २ आदान ३ अकस्मात् ४ आजीविका ५ मरण ६ अश्लोक ७ रूपभयहर ८
SR No.600394
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorVinayvijay, Mafatlal Zaverchand Gandhi
PublisherYashovijay Pustakalay
Publication Year1935
Total Pages378
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy