________________
कल्प२१
गुणैराजमानत्वात् । वज्रं पाणौ यस्येति वज्रपाणिः । असुरादिपुराणां दारणात् पुरन्दरः । शतं ऋतूनां कार्तिकश्रेष्ठभवापेक्षया अभिग्रहविशेषाणां श्रमणोपासकप्रतिमानां वा यस्यासौ शतक्रतुः । अत्र
सम्प्रदायः
पृथिवीभूषणे पूर्व प्रजापालो नृपोऽजनि । श्रेष्टीशः कार्तिकस्तत्र राज्यमान्यो महर्द्धिकः ॥१॥ तेन श्रद्धावता श्राद्धप्रतिमानां शतं कृतम् । शतक्रतुरिति ख्यातिस्ततो लेभे च सर्वगा ||२|| मासोपवास्यगात्तत्र परिव्राजक गैरिकः । तदाहतो जनः सर्वोऽप्यभवत् कार्तिकं विना ||३|| ज्ञात्वा तद्गैरिको रुष्टः, स्पष्टं राज्ञः पुरो जगौ । परिवेषयति श्रेष्ठी, तदैमि त्वद्गृहे नृप ||४|| ततः श्रेष्ठिगृहे राजा, गत्वा धृत्वा च तं भुजे । उचे चान्तर्ममावासे, गैरिकं त्वं प्रभोजय ॥५॥ सोऽवक् त्वत्पुरवासित्वात्करिष्येऽहं त्वदाज्ञया । धृष्टोऽसीत्यङ्गुलिं भञ्जन् स चालयति तं प्रति ||६|| दध्यौ च प्रावजिष्यं प्राग् नाभविष्यत्तदाह्यदः । अष्टश्रेष्टिसहस्त्रेण, प्रात्राजीत्सुव्रतान्तिके ॥७॥ पठित्वा द्वादशाङ्ग स इन्द्रोऽभूद्वादशाब्दकैः । गैरिको वाहनं तस्यैरावणाख्यं स्वकर्मतः ||८|| ॥ इति कार्तिकश्रेष्ठी कथा ।
सहस्राक्षः–इन्द्रस्य किल पञ्चमन्त्रिशतानि, तदीयानां चाक्ष्णाम् इन्द्रप्रयोजनव्यापृततया इन्द्रसम्बन्धित्वेन विवक्षणात् सहस्रलोचनेभ्यो तन्नेत्रयुग्मस्याधिकं दर्शनाद्वा । यदुक्तमुत्तराध्ययनवृत्तौअहवा जं सहस्सेणं अच्छीणं दीसह तं दोहिं अच्छीहिं अन्महिअतरागं पिच्छइ'त्ति मघा -- महा
दीपिकाः
२१