________________
विश्रान्तविद्याधरं च भीमसेनं कलापकम् । मुष्टिव्याकरणं शैवं गौडं नन्दिजयोत्पलं ॥२॥ | सारस्वतं सिद्धहैमं जयहैमं तथा परम् इति। . अथवाष्टौ महाव्याकरणानिब्राह्ममैशानमैन्द्रं च, प्राजापत्यं बृहस्पतिम्। त्वाष्ट्रमापिशलं, चेति, पाणिनीयमथाष्टमम् ॥
छन्दः-पद्यलक्षणशास्त्रं, निरुक्तं-पभञ्जनं, ज्योतिषां-ग्रहादीनां, अयने सर्वगत्यर्थाज्ञानार्था इति ज्ञाने ज्योतिःशास्त्रे इत्यर्थः। अन्येषुच ब्राह्मणहितेषु ग्रन्थेषु सुपरिनिष्ठितः सुनिष्णातश्च भविष्यति। क्वचिदेतदनन्तरं 'परिवायएसु'त्ति पाठः तत्र परिव्राजकदर्शनप्रसिद्देषु नयेषुआचारेषु न्यायशास्त्रेषु चेति भाव्यं । १०॥
तं उरालाणं तु मे देवाणुप्पिए सुमिणा दिट्ठा जाव आरुग्गतुछिदीहाउअ मंगलकारगाणं
तुमं देवाणुप्पिए सुमिणा दिठ्ठा त्ति कुटु भुज्जो भुज्जो अणुवूहइ ॥ ११॥ तमिति यस्मादेवेतस्माद्दारादि विशेषणाः तुमे त्वया स्वमा दृष्टा इति कह इत्युक्त्वा भूयो भूयो अनुवृहयत्यनुमोदयति । ११॥