SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ त्रिगुजाभिर्भवेद्वल्लो गद्याणे ते च षोडशः। खबाणैस्तैः स्मृतः सेरस्तैस्त्रिभिर्मण उच्यते ॥१॥ दीपिकाः दशभिस्तैर्द्धटीख्याता भारताः संमिता दश । तदर्ध च वपुर्मानं प्रायशः पुण्यशालिनाम् ॥२॥ ____एतद्भारमानेन-पादोनाअष्टमणाः किश्चिदधिका जायन्ते । तदर्धे तु साधिकपञ्चसेराधिकानि पादोनं चतुर्मणानीति भारार्धमानं । कल्पकिरणावल्यां तु'षट् सर्पपैर्यवस्त्वेको, गुञ्जका च यवैत्रिभिः । गुञ्जात्रयेण वल्लः स्याद् गद्याणे तेच षोडशः ॥१॥पले च दशगद्याणास्तेषां सार्द्धशतं मणे, मणैर्दशभिरेकाच घटिका कथिता बुधैः ॥ २॥घटीभिर्दशभिस्ताभि-रेको भारः प्रकीर्तितः ॥ इत्युन्मानं घटिभिर्दशभिस्तभिरेको भारः प्रकीर्तितः इति भारमानं प्रोक्तं तच्चिन्त्यं । यतोऽस्मिन् भारेऽष्टसप्ततिर्मणाः साधिकाः स्युस्तदर्धेचैकोनचत्वारिंशन्मणमितं भारार्धमिति कथमेतावदुन्मानं शरीरस्य || संभवतीति । यश्च स्वाइलेरष्टोत्तरशताङ्गलोचःसप्रमाणोपेतः इदं च शेषोत्तमपुरुषाणां लक्षणं यदुक्तं'अष्टशतं१०८ पण्णववतिः९६ परिमाणं चतुरशीति८४ रिति पुंसां । उत्तम१ सम२ हीनानां३ स्वदेहसंख्यास्वमानेनेति ॥१॥ तीर्थकृतां तु बादशाङ्गुलमुष्णीषं भवतीति ते स्वागुलैर्विशत्युत्तरशताकुलप्रमाणाः स्युः। ततश्च एतैर्मानादिभिः प्रतिपूर्णानि-अन्यूनानि, सुजातानि सुनिष्पन्नानि सर्वाण्यङ्गानि १ मुद्रितकिरणावभ्यां त्रयोविंशतितमे पृष्ठे एतद् द्वौ श्लोकौ उपन्यस्तौ । १८
SR No.600394
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorVinayvijay, Mafatlal Zaverchand Gandhi
PublisherYashovijay Pustakalay
Publication Year1935
Total Pages378
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy