________________
दन्त-त्वक् केशा-लि-पर्वनखं चेति पञ्च सूक्ष्माणिाधनलक्ष्माण्येतानि, प्रभवन्ति प्रायशः पुंसांuen नयन-कुचान्तर-नासा-हनु-भुजमिति यस्य पञ्चकंदीर्घम् । दीर्घायुवित्तपरः, पराक्रमीजायतेसनरः।५।
भालमुरोवदनमिति, त्रितयंभूमीश्वरस्य विपुलं स्यात्।ग्रीवा जङ्घा मेहनमिति त्रयं लघु महीशस्या d यस्य स्वरोऽथ नाभिः, सत्त्वमितीदं त्रयं गभीरं स्यात्।सप्ताम्बुधिकाञ्चेरपि, भूमेःस करग्रहं कुरुते ॥७॥ मुखमर्द्ध शरीरस्य, सर्व वा मुखमुच्यते। ततोऽपि नासिका श्रेष्ठा, नासिकायास्तु लोचने ॥८॥ यथा नेत्रे तथा शीलं, यथा नासा तथाऽऽर्जवम्। यथा रूपं तथा वित्तं, यथा शीलं तथा गुणाः॥९॥ गतेः प्रशस्यते वर्णस्ततः स्नेहोऽमुतः स्वरः, अतस्तेज इतः सत्त्वमिदं द्वात्रिंशतोऽधिकम् ॥१०॥ | अस्थिध्वःसुखं मांसे, त्वचि भोगाःस्त्रियोऽक्षिषु।गतौ यानं स्वरे चाज्ञा, सर्व सत्त्वे प्रतिष्ठितम् ॥११॥ पद्मवज्राङ्कशच्छत्रशङ्खमत्स्यादयस्तले । पाणिपादेषु दृश्यन्ते यस्यासौ श्रीपतिः पुमान् ॥१२॥ उत्तङ्गाः पृथुलास्ताम्राः स्निग्धाः दर्पणसन्निभाः। नखा भवन्ति धन्यानां, धनभोगसुखप्रदाः॥१३॥ सितैः श्रमणता ज्ञेया, रूक्षपुष्पितकैः पुनः। जायते किल दुःशीलो, नखैलोकेऽत्र मानवः॥१४॥ शुद्धाः समाः शिखरिणो, दन्ताः स्निग्धघनाः शुभाः। विपरीताः पुनर्जेया, नराणां दुःखहेतवः॥१५॥