________________
एआरुवे उराले जाव सस्सिरीए चउद्दस महासुमिणे पासित्ता णं पडिबुद्धा ॥ ६ ॥ तं जहा गय वसह जाव....सिहिं च ॥ ७॥ 'हडे'त्यादि,हृष्टतुष्टा-अत्यथै तुष्टा, अथवा हृष्टा-विस्मिता, तुष्टा-तोषवती, चित्तमाणंदित्ति चित्तेनानन्दिता, आनन्दितं वा चित्तं यस्यास्सा चित्तानन्दिता, 'मकारः प्राकृतत्वात्। अथवा हृष्टविस्मितं तष्टं तोषवञ्चित्तं यत्र तत्तथा तद्यथा भवति । एवमानन्दिता प्राति:-प्रीणनं मनसि यस्यामा प्रीतिमनाः, परमसौमनस्यं जातं अस्याः परमसौमनस्थिता, हर्षवशेन विसर्पद्विस्तारयायि हृदयं यस्याः सा, तथा धाराभिर्धाराधर-प्रादुर्भूताभिः आहतं हतं वा यत्कदम्बपुष्पं तदिव समुच्छ्वसितानि उधषितानि रोमाणि कूपेषु रोमरन्धेषु यस्याः सा,। यद्यप्येतानि अर्थतो न भूयो भेदभाजि तथापि स्तुतिरूपत्वात् प्रमोदप्रकर्षप्रतिपादनार्थत्वाच नायुक्तानि । सुमिणुग्गहं त्ति स्वमानामवग्रहणं-स्मरणं करोति, विशिष्टफललाभारोग्यराज्यादिकं विभावयतीत्यन्ये। अतुरिए त्ति, अत्वरित-मानसौत्सुफ्याभावेन, अचपलं-कायतः असंभ्रान्ततया-अस्खलन्त्या। अविलंबिआए त्ति,कचित्तत्राविलम्बितयाअविच्छिन्नया । राजहंसेति, राजहंसगतिसदृशया गत्या । जयः-परेरनभिभूयमानता, प्रतापवृद्धिः विजयः परेषां असहमानानामभिभवः, अथवा जयः स्वदेशे विजयः परदेशे ताभ्यां वर्धापयति । ततः किं कृतवती? आश्वस्ता-गतिजनितश्रमाभावात, विश्वस्ता-संक्षोभाभावात्, अनुत्सुका, सुखेन सुखं