________________
कल्प
दीपिकाः
|| साष्टिमासहीने कोटाकोटिपरिमिते चतुर्थारके बहुव्यतीते। 'दोहिअत्ति मुनिसुव्रतनेम्यो । पूर्वतीर्थकृनिर्दिष्टः पूर्वतीर्थङ्करैः-वृषभायैः। ग्रामेशस्त्रिदृशो मरीचिरमरः षोढा परिव्राट् सुरः, संसारा बहु विश्वभूतिरमरो नारयणो नारकः। सिंहोनैरयिको भवेषु बहुशश्चक्री सुरो नन्दनः,श्रीपुष्पोत्तरनिर्जरोऽवतु भवाद्वीरस्त्रिलोकी गुरुः ॥१॥ ____एवं भवकथनपूर्व निर्दिष्टः कथितः। 'माहण'ति, माहनानां कुण्डं-आयत्तता यत्र स चासौ ग्रामश्च, कराभावाच्च नगरं । तत्र कोडालैः समंगोत्रं यस्येति। एवं 'जालंधरसगोत्ताए' इत्यादावपि। पूर्वरात्रश्चासौ अपररात्रश्च पूर्वरात्रावररात्र स एव काललक्षणः समयो न तु समाचारादि लक्षणः पूर्वरात्रापररात्रकाल- | समयस्तत्र मध्यरात्रे इत्यर्थः। 'आर्षत्वाचात्रैकरेफलोपः, अपरात्रशब्दोवायं 'अई गते सर्व गत मिति न्यायादपगता रात्रिः अपरात्रः।योग-अर्थाच्चन्द्रेण सह, आहारव्युत्कान्त्या-देवाहारपरित्यागेन अथवा मनुष्योचिताहारग्रहणेनेत्यर्थः। एवमन्यदपि पवयं,कुक्षौगर्भतया व्युत्क्रान्तः--सङ्क्रान्तः। यद्यपि देवानां षण्मासावशेषायुषां "माल्यं म्लानिः कल्पवृक्षपकम्पः, श्रीहीनाशो वाससां चोपरागः। दैन्यं तन्द्रा कामरागाङ्गभङ्गो, दृष्टान्तिर्वेपथुश्चारतिश्च"॥१॥ इति भावा जायन्ते, तथापि तीर्थङ्करसुराः पुण्योत्कर्षात्कान्तिविज्ञानादियुक्ता भवन्ति। च्यवनं भविष्यत्कालं भगवान् जानाति, च्यवमानस्तु न जानाति च्यवनस्यैकसामयिकत्वेन सूक्ष्मत्वात्, छानस्थिकज्ञानोपयोगस्य जघन्यतोऽप्यान्तर्मुहूर्तिकत्वात् च्यवनकालं भगवान् न