________________
क.
१२
फाल्गुनीनां ताः हस्तोत्तरास्ताश्च पञ्चसु स्थानेषु - गर्भाधान १ संहरण २ जन्म ३ दीक्षा४ ज्ञानोत्पति५ लक्षणेषु संवृत्ता अतः पञ्चहस्तोत्तरो भगवान् अभूदित्यर्थः । ' अत्र पञ्चसु स्थानेषु इत्येव व्याख्यातं न पुनः कल्याकेष्विति खयमेवालोच्यम् । 'हत्थोत्तराहिं' ति, हस्तोत्तराभिः उत्तरफाल्गुनीभिः चन्द्रयोगे च्युतो - देवभवात् च्युत्वा च गर्भे व्युत्क्रान्तः - उत्पन्नः । गर्भाद्गर्भे 'साहरिए 'त्ति संक्रामितः, 'जाए'त्ति जात:- योनिवर्त्मना निर्गतः । ' मुण्डेति 'ति मुण्डो द्रव्यभावाभ्यां द्रव्यतः केशलोचतः, भावतः क्रोधाद्यभावतः अगाराद्-गृहान्निष्क्रम्येति शेषः । अनगारितां - साधुतां प्रब्रजितः - प्रकर्षेण गतः, अनन्तं अनन्तार्थविषयत्वात्, अनुत्तरं सर्वोत्तमत्वात्; निर्व्याघातं व्याघाताभावात्, निरावरणं क्षायिकत्वात्, कृत्स्नं सकलार्थग्राहकत्वात्, प्रतिपूर्ण सकलस्वांशसमन्वितत्वात्, पौर्णमासीचन्द्रमण्डलवत्, केवलं असहायं, अत एव वरं ज्ञानं दर्शनं चेति । तत्र विशेषाववोधरूपं ज्ञानं, सामान्यावबोधरूपं दर्शनम् ।
ते णं काले णं तेणं समए णं समणे भगवं महावीरे जे से गिम्हाणं चउत्थे मासे अट्ठमे पक्खे आसादमुद्धे तस्स णं. आसाढसुद्धस्स छट्ठी पक्खे णं महाविजयपुप्फुत्तरपवरपुण्डरीआओ महाविमाणाओ वीसं सागरोनमहिआओ आउक्खएणं, भवक्खणं, टिइनखएणं, अणंतरं चयं, चहला इहेव जंबुद्दीवे दीवे भारहे वासे दाहिणड्डूभर हे इमीसे ओसप्पिणीए सुसमसुसमाए समाए विइताए, सुसमाए समाए विइकंताए, सुसमदुस्समाए समाए विज्ञताए, दुस्समसु
१२