________________
ते णं काले णं ते णं समए णं समणे भगवं महावीरे पंच हत्थुत्तरे होत्था, तं जहा हत्युत्तराहिं चुए,१ चइत्ता गम्भं वकते, हत्थुत्तराहिं गन्भाओ गम्भं साहरिए,२ हत्थुत्तराहिं जाए,३ हत्युत्तराहिं मुंडे भवित्ता अगाराओ अणगारिअं पवइए,४ हत्युत्तराहिं अणंते, अणुत्तरे, निवाघाए, निरावरणे, कसिणे, पडिपुण्णे, केवलवरनाणदंसणे समुप्पन्ने,५ साइणा परिनिव्वुए भयवं ॥ १॥ व्याख्याः-'तेणं कालेणं'ति प्राकृतशैलीवशात् तस्मिन् काले-वर्तमानावसर्पिण्याश्चतुर्थारकलक्षणे । एवं तस्मिन् समये तविशेषे यत्रासौ भगवान् देवानन्दायाः कुक्षाववतीर्णः। णं वाक्यालङ्कारे, अथवा 'ससम्यर्थे आर्षत्वात् तृतीयैवेयं हेतौ' वा। ततस्तेन कालेन तेन समयेन हेतुभूतेनेति व्याख्येयम् । अथ तच्छब्दस्य पूर्वपरामर्शित्वादन तदा किं परामृश्यते इति चेत्, यौ कालसमयौ श्रीऋषभादिभिः श्रीवीरस्य षण्णां च्यवनादीनां वस्तूनां हेतुत्वेन कथितौ तावेव ब्रूमः-श्रमणः-तपस्वी, भगवान् समग्रैश्वर्ययुक्ता, महावीरः-कर्मशत्रुजयादन्वर्थनामा । हस्तः उत्तरो यासां ताः हस्तोत्तराः-उत्तराफाल्गुन्यः । अथवा | हस्तादुत्तरस्यां दिशि वर्तमानत्वात् हस्तोत्तराः-उत्तराफाल्गुन्यः । ताश्च पश्चसु स्थानेषु यस्य स पञ्चहस्तोत्तरः । इदं वीरविशेषणं, निर्वाणस्य स्वातौजातत्वान्न चात्र स्थानव्याख्यानमनागमिकं,आगमे स्थानानामेव व्याख्यातत्वात् । तथाहि-"पंच हत्थोत्सरे होत्थ"त्ति, आचाराने तट्टीका यथा-' हस्त उत्तरो यासामुत्तर