________________
%
་ ་བ
"पंचविहमायारं, आयरमाणा तहा पभासंता। आयारं दंसंता, आयरिआ तेण वुच्चन्ति ॥३॥"
नमः उपाध्यायेभ्यः । उपेत्य समापमागत्य येभ्यः सकाशाद्धीयन्त इत्युपाध्यायास्तेभ्यः । यथा"वारसंगो जिणक्खाओ, सज्झाओ कहिओ बुहेहि। तं उवइसति जम्हा, उवज्झाया तेण वुच्चन्ति ॥४॥”
नमो लोके सर्वसाधुभ्यः। लाके मनुष्यलोके सम्यग् ज्ञानादिभिर्मोक्षसाधकाः, सर्वसत्वेषु समाश्चेति साधवः । सर्वे च ते स्थविरकाल्पकादिभेदभिन्नाः साधवश्वेति सर्वसाधवस्तेभ्यः । यथा“निव्वाण साहए जोए, जम्हा साहति साहुणो। समा यसव्वभूएसु, तम्हा ते सव्वसाहुणो ॥५॥” - एषः प्रत्यक्षो विधीयमानः पश्चानामहदादानां नमस्कारः सर्वाणि च तानि पापानि तानि सर्वपापानि NT तेषां विध्वंसकः । सर्वेषां द्रव्यभावभेदभिन्नानां मङ्गलानां प्रथममिदमेव मङ्गलं । चः समुच्चये । 'पञ्चसुपदेषु
चतुर्थ्यर्थे षष्ठा,' । अत्र चाष्टषष्ठिरक्षराणि, नवपदानि, अष्टौ च सम्पदो-विश्रामस्थानानि, तत्र संप्त एकैक2 पदा, अन्या तु द्विपदा। अधिकारिणस्तु पश्चाहेदादयो मार्गप्रकाशनादिभिः कारणेनमस्काराः
मग्ने,अविप्पणासोर, आयारे३, विणयया४, सहायत्तं । पंचविहनमुक्कारं, करेमि एएहि हेऊहिं ॥१॥ इत्यक्षरार्थः।
अत्र कल्पाध्ययने त्रयं वाच्यम्-जिनवरित्राणि, स्थविरावला, पर्युषणासामाचारीच । तत्रापि वर्तमान [M तीर्थाधिपतित्वेन आसनोपकारित्वात प्रथम श्रीवर्धमानचरित्रमाहुः श्रीभद्रवाहस्वामिपादाः