SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ कथत् । यदि पूर्वस्मिन् भवे तपः कृतं भवेत्तदात्रभवे पराभवो न स्यादित्युक्तवति मित्रे सोऽपि यथाशक्त्या तपश्चक्रे । ततो मानापमानौ सन्त्यज्य तपस्येव लीनोऽभूदन्यदा प्रदीपने जाते सपल्या दक्षगुणोऽयमिति मत्सरेण विमात्रा सुप्तेऽस्मिन् कुटीरके दग्धे वहिन्यथामगणयंस्तपसिलानो मृत्वा श्रेष्ठिसुतो जातोऽतोऽसौ । | पूर्वसंस्कारतः पर्युषणादिनं श्रुत्वा अष्टमं कृतवान् ।” स चायं जावन्नपि मृत इति तदीयभूमौ निहितो यावतान म्रियते तावत्संजीवयाम्यहमिति विचिन्त्य | धरणेन्द्रः स्वप्रभावतस्तमरक्षत् । तदा च तजनकः स्वसुतमरणश्रवणादेव सञ्जातहृदयसङ्घद्यः क्षणान्मरणं | प्रासः। अपुत्रत्वेन तद्गृहसारग्रहणाय राज्ञा स्वपुरुषाः प्रेषितास्तदा च नागेन्द्रो विप्रीभूय तान् निवारयामास। तै राज्ञे कथितम् । राजापि स्वयमेत्य विनीभूतं धरणेन्द्र प्रत्युवाच-'किं त्वं व्याषेधं करोषि ? । तदाह स्म धरणेन्द्रः-कथं निर्वीरायाः स्त्रियः सर्वखहरणे दयाहीनो न लजसे ?। सोऽप्याह-प्राचां राज्ञां राजनीतिरिय निर्वीरायाः स्वापतेय भूपतयो गृह्णन्तीति । ततोऽस्याः पुत्रको जीवनस्तीति धरणेनोक्ते राजाह क्वास्ति ? रत्नवद्भूमौ निखातोऽस्तीति धरणेनोक्ते राज्ञा चोत्खातीते तस्मिन् वाले श्रीसखी रुदती तमदीधपत्।करे कृत्वाऽथ तं बालं तत्स्वरूपं च भूपाय निवेद्य, धरणो बालाय हारं परिधाप्य, यत्नेनायं पाल्यो महते उपकाराय भवतां भविष्यतात्युक्त्वा च तिरोधे । राजापि तद्वार्तया प्रमोदं वहन् स्वगृहं गतः। पितुरौर्ध्वदेहिके स्वजनैः कृते तस्य नागकेतुरिति नाम दत्तम् । ततः प्रभृति सोऽपि बालकश्चतुःपा चतुर्थ, चतुर्मासके षष्ठं, पर्युषणापर्वणि चाष्टमं कुर्वाणो यौवनेऽपि मन्मथविकारं स्वप्नेऽपि न प्राप्तो, जिनोक्तधर्मरतो व्रतानि RSS
SR No.600394
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorVinayvijay, Mafatlal Zaverchand Gandhi
PublisherYashovijay Pustakalay
Publication Year1935
Total Pages378
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy