________________
पुष्पाणि स्थविरव्रजस्य च कथोपादेयहेयं तथा,
सौरभ्यं फलमत्र निर्वृतिमयं श्रीकल्पकल्पद्रुमे ॥४॥ नार्हतः परमो देवो, न मुक्तेः परमं पदम् । न श्रीशत्रुञ्जयात्तीर्थ, श्रीकल्पान्न परं श्रुतम् ॥५॥ वाचनात्साहाय्यदाना-त्सर्वाक्षरश्रुतेरपि। विधिनाराधितःकल्पः, शिवदोन्तर्भवाष्टकम्॥६॥” इति।
तथाऽन्न पर्युषणापर्वणि कल्पसूत्रश्रवणवच्चेत्यपरिपाटी१, समस्तसाधुवन्दनं२, सांवत्सरिकप्रतिक्रमणं३, | मिथः साधर्मिकक्षामणकं४, अष्टमं तपश्चेति । एतानि पञ्चकृत्यानि विधिविधेयानीति।
तत्र तपसि नागकेतुकथानकम्अस्त्यत्र श्रीचन्द्रकान्ता पुरी । तस्यां च प्रबलप्रतापवान् विजयसेनभूपतिः। सकलपुरप्रधानः श्रीकान्तो नाम च श्रेष्ठा । तस्य श्रीसखीव श्रीसखीनानी भार्या । तयोरुपयाचितानां शतैः क्रमाज्जातः सुतः। बभूव
च तदासन्नं श्रीपर्युषणापर्व । 'वयं अष्टमं तपोऽस्मिन् पर्युषणापर्वणि करिष्याम' इति कुटुम्बभाषितं - श्रुत्वा स बालः सजातजातिस्मृतिरष्टमं तपो विहितवान् । नरोदिति न च स्तन्यं पिवति । ततः साश्रुर्माता
भर्नुस्कथयत् । सोऽप्युपचारशतान्यचीकरत् । परं नैष स्तन्यं जग्राह । तताऽसौ मूर्च्छया छनचेतनोजनि। जीवन्तमपि मृतधिया निधानमिव दुर्द्धियस्तदंश्यास्तं भुवि न्यषदन् । तदा धरणेन्द्रस्य सिंहासनं तत्तपसा चचाल । सोऽपि ज्ञातवांस्तस्य पूर्वभववृतान्तं । तथाहि
"अमूत् क्यापि सनिवेशे मृतमातृको वणिक्पुत्रोऽपरमातृतः पराभयं पश्यन् यौवनस्थोऽसौ मित्रायाधी