SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ - - सम्यक् पालयामास । अथैकदाऽचौरोऽपि चौरधिया भूपतिना चौरकलङ्कदानाद्धृतः। सोऽपि व्यन्तरीभूय ka भूपं पाणिना आहत्य नगरध्वंसाय नगरप्रमाणां शिलां विकृत्य लोकान् भापयामास । तदा च मा सहस्य जिनेन्द्रप्रासादादीनां च ध्वंसो भवतु इति ध्यायन् प्रासादमारुह्य नागकेतुः पतन्तीम् शिलां पाणिना दः । व्यन्तरोऽपि तत्तेजोऽसहिष्णुस्तां शिलां संहृत्य तत्पादौ प्रणनाम । तवचसा राजानं पटुकृत्य शान्तः स्वाश्रयं च जगाम । इत्याद्यनेकधा उपकारं कुर्वन्नेकदा जिनगृहे जिनपूजां कर्तुं गतः।तत्र च पुष्पस्थदन्दशकेन कराजुलौ दष्टः । सोऽपि च ज्ञातव्यतिकरस्तमन्यत्र मुक्त्वा जिनेन्द्रमूर्तेः पूरो ध्यानं सम्यगालम्व्य तस्थिवान् । ततो ध्यानारूढः क्षपकश्रेणिमारूढो घातिकर्मचतुष्टयक्षयात् सम्प्राप्तकेवलज्ञानः शासनदेवतादत्तलिङ्गो भविकान् प्रतिबोधयन बहुकालं केवलिपर्यायं परिपाल्य सिद्धिसौधमलश्चकार नागकेतुमुनिः। इहलोके परलोके दुःप्रापं सारभूतमत्यन्तम् तत्तपसा सुलभं स्यात् तपसि यतध्वं ततो भव्याः॥१॥ ॥ इति नागकेतुकथा ॥ अष्टमतपसि कविघटना त्वेवम्"किं रत्नत्रयसेवनं किमथवा शल्यत्रयोन्मूलनं, किं वा चित्तवचोवपुःकृतमलप्रक्षालनं सर्वतः। किं जन्मत्रयपावनं किमभवद्विश्वत्रयाऽयं पदं, धन्यैर्यद्विहितं कलावपि जनैः पर्वोपवासत्रयम् ॥१॥" ____तदेवं समुपस्थिते पर्युषणापर्वणि अष्टमतपः पूर्व सकलापद्रवविद्रावकस्य समग्रमङ्गलसङ्केतनिकेतनस्य महानन्दपरमनिदानस्य महार्थनिधानस्य श्राकल्पसूत्रस्य वाचना सावधानतयावश्यं श्रवणायेति कृतं प्रसङ्गेनाथ प्रकृतं प्रस्तूयते ॥ . Jale/-ra
SR No.600394
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorVinayvijay, Mafatlal Zaverchand Gandhi
PublisherYashovijay Pustakalay
Publication Year1935
Total Pages378
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy