SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ व्याख्या-संखादत्तिअस्सत्ति-सङ्ख्यया उपलक्षिता दत्तयो यस्य स तथा तस्य दत्ति-परिमाणवत । इत्यर्थः। लाणासायण त्ति लवणं किल स्तोकं दीयते तावन्मानं भक्तपानस्य गृण्हाति साऽपि दत्तिर्गण्यते अतो लवणास्वादनमात्रमपि दत्तिः स्यात्, पञ्चेत्युपलक्षणं तेन चतस्रस्तिस्रो वे एका षट् सप्त वा यथाऽभिग्रहं वाच्याः, कदाचित्तेन भोजनस्य पञ्चदत्तयो लब्धाः पानकस्य तिस्रः तता या पानकसक्ता अवशिष्टास्ता भोजने निक्षिपति भोजनसक्ता वा पानके इत्येवं समावेशो न कल्पते ॥२६॥ वासावासं पज्जोसविआणं नो कप्पइ निग्गंथाण वा निग्गंथीण वा जाव उवस्सयाओ सत्तघरंतरं संखडिं संनियट्टचारिस्सइत्तए, एगे पुण एवमाहंसु नो कप्पइ जाव उवस्सयाओ परेणं संखडिं सन्निअट्टचारिस्सइत्तए, एगे पुण एवमाहंसु नो कप्पइ जाव उवस्सयाओ परंपरेणं संखडिं संनियट्टचारिस्सइत्तए ॥ २७॥ व्याख्या-जाव उवस्सयाओ, उपाश्रयात्-शय्यातरगृहादारभ्य यावत्सप्तगृहान्तरं-सप्तगृहमध्ये संखडिं त्ति संस्क्रियते इति संस्कृतिः-ओदनपाकस्तां गन्तुं न कल्पते-पिण्डपातार्थ तत्र न गच्छेदित्यर्थः, तेषां । | गृहाणां सन्निहिततया साधुगुणहष्टहृदयत्वेनोद्मादिदोषसम्भवात् एतावता-शय्यातरगृहमन्यानि च षट् ।। तदासन्नानि वर्जयेदित्युक्तं, कस्य न कल्पते इत्याह-सन्निअदृचारिस्स त्ति निषिद्धगृहेभ्यः सन्निवृत्तश्चरति
SR No.600394
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorVinayvijay, Mafatlal Zaverchand Gandhi
PublisherYashovijay Pustakalay
Publication Year1935
Total Pages378
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy