________________
अथ गुरुणोक्तं स्याद् भदन्त ! दद्याश्च ग्लानाय प्रतिगृण्हीयाश्च यदद्य त्वमक्षमोऽसीति ततो दानं तस्मै । प्रतिग्रहणं च स्वयं कल्पते अनुक्ते चेत् ग्लायाऽऽनयति स्वयं वा गृह्णाति ततः परिष्ठापनिकादोषोऽजीर्णादिदोषाद् ग्लानत्वं वा मोहोद्भवो वा स्यात् ॥ १४ ॥ १५॥ १६॥ : वासावासं पज्जोसवियाणं नो कप्पइ निग्गंथाण वा निग्गंथीण वा हट्ठाणं आरुग्गाणं बलिअसरीराणं इमाओ नवरसविगईओ अभिक्खणं अभिक्खणं आहारित्तए तं जहा खीरं १ दहिं २ मा णवणीअं३ सप्पिं ४ तिलं ५ गुडं ६ महुं ७ मज्ज ८ मंसं ९ ॥ १७॥
व्याख्या-हट्ठाणमित्यादि, हृष्टानां-तरुणत्वेन समर्थानां युवानोऽपि केचित्सरोगाः स्युरित्याह-आरुग्गाति आरोग्यमस्त्येषामिति अभ्रादित्वादप्रत्यये आरोग्यास्त्येषां, उभयेऽपि केचित् कृशाङ्गाः स्युरित्याहबलिकशरीरिणां, रसप्रधाना विकृतयो रसविकृतयस्ता अभीक्ष्णं अभीक्ष्णं पुनः पुन आहारयितुं न कल्पन्ते, Vा रसग्रहणं तासां मोहोद्भवहेतुत्वख्यापनार्थ, अभीक्ष्णग्रहणं पुष्टालम्बने कदाचित्तासां परिभोगा नवग्रहणात्कदाचित् पक्वान्नं । गृह्यते । विकृतयश्च द्विधा सञ्चयिकाऽसञ्चयिकभेदात, तत्र दुग्धदधिपक्वान्नविकृतयोऽसञ्चयिका ग्लानत्वे वा गुरुबालतपस्वीवृद्धगच्छोपग्रहाय वा श्राद्धाग्रहादा ग्राह्याः घृतगुडतैलख्याः सञ्चयिकास्ताः प्रतिलाभयन् गृही वाच्यो महान् कालोऽस्ति ततो ग्लानादिकार्ये ग्रहीष्यामः, स च वदेत् गृहीत चतुर्मासी यावत्प्रभूताः सन्ति तता ग्राह्याः, बालादीनां च देया न तरुणानां निष्कारणं ।