________________
सुलहा विहारभूमी १, वियारभूमी यर सुलहसज्झाओ३ ।
सुलहा भिक्खायरिया४, जहन्नयं वासखित्तं तु ॥ १॥
व्याख्याः - विहारः प्रासादः १, विचारभूमिः - शरीरचिन्तानिवृत्तिस्थानं२, सुलभं स्वाध्यायस्थानं ३, सुलभा गोचरिका४ । इति चतुर्गुणोपेतं जघन्यं वर्षाक्षेत्रं । पञ्चादिवादशगुणोपेतं तु मध्यमम् । उक्तं च“चउगुणोववेयं तु, खित्तं होइ जहन्नयं । तेरस गुणमुक्कोसं, दुण्हं मज्झमि मज्झिमं ॥ १ ॥”
तदेवं क्षेत्रादिगुणालोचनपूर्व पर्युषणाकल्पं विधाय तत्र चोपस्थिते
मन्त्राणां परमेष्टिमन्त्रमहिमा तीर्थेषु शत्रुञ्जयो, दाने प्राणिदया गुणेषु विनयो ब्रह्म व्रतेषु व्रतं । सन्तोषो नियमे तपस्सु च शमस्तत्त्वेषु सद्दर्शनं, सर्वज्ञोदितसर्वपर्वसु परं स्याद्वार्षिकं पर्व च ॥ १ ॥
इत्यादिवृत्तव्यावर्णितसद्भूतमहिमनि श्रीकालकाचार्याचरणातो भाद्रपद शुक्लचतुर्थीलक्षणे श्रीवार्षिकपर्वणि पर्वदिनात् पञ्चभिरेव दिनैः सुविहितसाधुभिर्वांच्यमानञ्चतुर्दशपूर्वधारिश्री भद्रवाहुस्वामिभिः प्रत्याख्यानप्रवादाभिधनवमपूर्वात् श्रीदशाश्रुतस्कन्धाष्टमाध्ययनत्वेन सत्वहितार्थं समुद्धृतः । सकलकल्पि तार्थवितरणकल्पद्रुकल्पः श्रीकल्पः कल्याणार्थं श्रोतव्यः । पूर्वाणि च स्थानात्स्थानान्तरवृद्धया प्रथमं एकेन १, द्वितीय द्वाभ्यां२, तृतीयं चतुर्भिः ३, चतुर्थमष्टभिः ४, पञ्चमं षोडशभिः५, षष्ठं द्वात्रिंशता ६, सप्तमं चतुः षष्टथाः ७, अष्टमं अष्टाविंशत्यधिकशतेन८, नवमं षट्पञ्चाशदधिकशतद्वयेन९, दशमं द्वादशयुतैः पञ्चभिः
बा