________________
शङ्कितस्तमित्यादिविवरे शय्यात्यो हसन्नुपालन्धोऽहं युष्माभिरेव शिक्षितोऽस्मीति वक्रजडत्वात्प्रत्यु- दी. त्तरितवान् । __ अजितादितीर्थेषु तु तथैव नटं वीक्ष्यागतास्ते गुरुणा निराकृतास्सन्तः । एकदा नटी नृत्यन्तीं दृष्ट्वा ऋजुप्रज्ञत्वान्नटनिषेधे सुतरांनटीनिषिद्धैवेति चिन्तयन्तो निवृत्ताः।अत एवं नियतानियतादिविभागेन तत्कालीनसाधून समुद्दिश्य दशधा कल्पश्चक्रे । किञ्चैतद्दशंविधकल्पान्तर्गतः पर्युषणाकल्पो गुणवति क्षेत्रे कार्यः। क्षेत्रगुणाश्चोत्कृष्टेतरभेदभिन्नत्वेन द्विविधा । तत्रोत्कृष्टास्त्वेवं त्रयोदश गुणाः
चिखल्ली पाणर थंडिल३, वसहीट गोरस५ जणाउले विजे७ ।
ओसह८ निचया९ हिवई१०, पासंडा११ भिक्ख१२ सज्झाए१३ ॥१॥ व्याख्या-यत्र भूयान् कर्दमो न स्यात्१, यत्र सम्मूच्छिमा बहवः प्राणा न स्युः२, यत्र अनापातमसं-16 लोकं परिष्ठापनस्थानं स्यात्३, यत्र स्न्यादिरहिता वसतिः स्यात्४, यत्र दधिदुग्धादिप्रचुर स्यात्५, यत्रातिभद्रको भूयान् जनः श्रद्धालुः स्यात्६, यत्र भद्रका वैद्याः स्युः७, यत्रोषधानि सुलभानि भवन्ति८, यत्र गृहस्थानां धनधान्यान्वितानि गृहाणि स्युः९, यत्राधिपती-राज्ञादिर्भद्रको भवति१०, यत्र ब्राह्मणतापसादिलिगिनः स्युः न च तेभ्योऽपमानं स्यात्११, यत्र भैक्ष्यसुलभता स्यात्१२, यत्रास्वाध्यायाभावे तत्रान्यत्र वा स्वाध्यायः कर्तुं शुध्यति१२ ॥
जघन्यतस्तु चत्वारो गुणास्ते चैवं